________________
5
एकादशः सर्गः]
[७१ रथा व्यराजन्त वधूर्धराग्रजाग्रन्मुखा द्वारि निवासकानाम् । तूष्णीं वितीर्णोभयगल्लहस्ता इवात्मधुर्योक्षवियोगदुःखात् ॥८१॥ उत्तार्यमाणेऽपि भरातिरेके चक्रन्दुरुच्चैः करभास्तदानीम् । विधीयमानेऽपि हिते नितान्तं कान्तं वचो हि ब्रुवते न मूढाः ॥८२॥ बब्बूलचूला मृदुलोपशाखाः सुखं लिहन्तो लुलदोष्टमुष्ट्राः । स्वैरं विचेरुः परितो महाद्रिमुत्त्रासयन्तो वनसैरभाणि ॥८३॥ निपाय्य तोयानि महीरुहाणां छायासु बद्धाः परितो महोक्षाः । पूत्कारिघोणाः परिवृत्य घासमुद्गालयन्ति स्म सुखं निषण्णाः ॥८४॥ उत्तार्य पर्याणखलीनकानि लघूकृताः पांशुरभूमिकासु । उद्वेल्लमाना लुठदङ्गकानीवाश्वा वितेनुः प्रतिनेमिशैलम् ॥८५॥ मत्पृष्ठतः स्वामिजनोऽवतीर्णः कथं कथं नैव विलङ्घित्ता भूः । इत्यन्तरा खेदपरा इवाश्वाः वितेनिरे भूमिविलोकनानि ॥८६।। मुक्तश्रमाः शैलनदीषु पीताम्भसोऽभिषेकाम्बुकणान् किरन्तः । वण्ठैरनीयन्त कुहत्कृतोश्वाः सङ्घाधिपावासपुरोवनीषु ॥८७।। वल्लीषु बद्धा हरितानि नम्रीकृतांसमश्वा मुदमुद्वहन्तः । पुच्छैः प्रशंसन्त इवोल्लसद्भिश्वबभुंरदन्तनादाः (?) ॥८८।। तदास्यवैकृत्यमुदीक्ष्य सद्यस्त्रिकं परावृत्य वनायुजेशे । कस्मिंश्चिदामुञ्चति पादतालं खिखीति कृत्वा कपिरुत्पपात ॥८९।। आवर्त्तनाभ्यः स्मितपद्मनेत्राश्चक्रस्तनाडम्बरमुद्वहन्त्यः । इभैरभुज्यन्त समुद्रपत्न्यो बलीयसां वा किमसाध्यमस्ति ॥९०।। गर्जन्त उच्चैः सुचिरं किरन्तो मदाम्बु जम्बालितधूलिजालम् । गुरूदरादि परितः करीन्द्रा बभुः पयोद इव नीलभासः ॥९१।। वैतालिकाः प्रस्तुतनित्यकालक्रियापरे सङ्घपतौ वसन्ते । अनूदितां रैवतकाद्रिपादैर्भोगावली पेठुरकुण्ठवाचः ॥९२।। विलोकनीयाजनि रैवतस्य गिरेः परिष्वङ्गपरैव तस्य । निवासमालाद्रिसभासमाना दृष्ट्यां प्रकाशावधि भासमाना ॥९३।।
D:\chandan/new/bsnta/pm5\3rd proof