________________
६८]
[वसन्तविलासमहाकाव्यम् ॥ यथाभिलाषं सुमनोवितीर्णविभूतिमात्मानमिवाम्बुराशिम् । तत्रैक्षतामात्यपतिः स्वयं तु न ग्राहशीलो न जडाशयश्च ॥४०॥ युग्मम् ।। तं तीरगं नीरनिधिः प्रमोदशालीव गर्जन विहसंश्च फेनैः । कल्लोलहस्तैरविलोलचित्तं मन्त्रीश्वरं मित्रमिवालिलिङ्ग ॥४१॥ तत्र द्विजेभ्यः सचिवैकरत्नं रत्नैस्तथा हर्षपरो ववर्ष । यथा यथा तैरवृथाकरस्त्रीरत्नाकरो मूर्त इव प्रतीतः ॥४२।। अथाश्वमत्तेभरथाधिरूढै: सामन्तलोकैः परितः परीतः । दिगन्तकुक्षिम्भरिभूरिभेरीभाङ्कारधिक्कारितसिन्धुशब्दैः ॥४३।। तदागमोदारमुदेव चैत्यध्वजाभुजाकल्पितताण्डवं सः । चन्द्रप्रभं नन्तुमना महेशं तत्पत्तनं मन्त्रिवरो विवेश ॥४४॥ युग्मम् ।। तत्र क्षणे संभृतभूरिभेरीभाङ्कारमाकर्ण्य पुराङ्गनानाम् । वसन्तवीक्षातृषितेक्षणानामेवंविधं चेष्टितमाविरास ॥४५।। औत्सुक्यतो हारलतां नितम्बे निवेश्य कण्ठे रसनां च काचित् । ताडङ्कमाधाय कलाचिकायां कर्णे पुनः कङ्कणमुच्चकार ॥४६।। काचित्तथा कञ्चकमेकबाहौ निवेश्य नीलं गजचर्मलीलम् । सन्दृश्यमाणैककुचार्द्धनारीश्वरत्वमूहेऽधिगता गवाक्षम् ॥४७॥ काचित्तदानीं किल भोजयन्ती शिशं स्वमाकर्णिततर्यनादा । हित्वा तदासन्नबिडालमेकं कृत्वा कटीरे गृहमारुरोह ॥४८॥ काचित्तदानीं गृहकर्म हित्वा प्लुता च्छुटन्नीविलुलत्पटान्ता । श्वश्रूतिरस्कारवचांसि पादमञ्जीरनादैस्तिरयाम्बभूव ॥४९॥ अट्टालमारोहति किञ्च फालविलोलपादं ललनासमूहे । पाणिन्धमत्वेन बभव भङः परस्परं काञ्चनकङणानाम ॥५०॥ भ्रूचापमुत्क्षिप्य कटाक्षबाणैर्वातायनस्था सचिवं जघान । मां हन्ति कामस्तदयं सनाभिस्तस्येति रोषादिव कापि योषा ॥५१॥ असौ प्रविष्टो हृदि मे वसन्तो निःसृत्य मा यातु कथञ्चनापि । इतीव काचिद्दतिमुच्चकार रोमाञ्चकूटोत्कटकण्टकौघैः ॥५२॥ हर्तुं मनः श्रीसचिवेश्वरस्य यदैव काचिच्चकमे तदासौ । स्मरेण कोदण्डकरेण रोपै रोमाञ्चरूपैरभिकीलितैव ॥५३॥
15
20
D:\chandan/new/bsnta/pm5\3rd proof