________________
5
10
६४]
[वसन्तविलासमहाकाव्यम् ॥ चैत्यवन्दनविधि व्यधादथो देवसेवकजनेऽथ सत्क्रियाम् । सङ्घभूपतिरवारितं ततः सत्रमत्र समसूत्रयच्च सः ॥८६।। सङ्घलोकसहितस्ततो मुखोद्घाटनं व्यधित सङ्घभूपतिः । यत्र तीर्थपतिकोशवृद्धये कोटिशो द्रविणराशयोऽमिलन् ॥८७।। आदिनाथमथ मोक्तुमक्षमः सन्निधिं पितुरिवास्य सङ्घराट् । शेषतीर्थपरिषद्विवन्दिषादूयमानहृदयो व्यजिज्ञपत् ॥८८॥ आनन्दाश्रुविमिश्रनेत्रयुगलो बद्धाञ्जलिः सम्प्रति क्षिप्त्वा त्वत्पदपङ्कजोपरि शिरः स्वाम्येकमभ्यर्थये । चेत्त्वं बन्धुरकारणोऽसि करुणा चेदस्ति ते चेतसि स्वं विश्वैकनमस्य देव ! मम तद्देयाः पुनर्दर्शनम् ॥८९।। इत्थं गद्गदया गिरा प्रभुपदानापृच्छ्य वर्धापनं सङ्गीतेन कपर्दिनश्च पुरतो निर्माय निर्मायधीः । अर्थिभ्यः सुतरां धनानि वितरन्सङ्घाधिनाथ स्वयं
सङ्घनाथ समं गिरेरुदतरत् पुण्यश्रियाऽलङ्कृतः ॥९०॥ 15 इति सिद्धसारस्वताचार्यश्रीबालचन्द्रविरचिते वसन्तविलासनामनि महाकाव्ये
शत्रुञ्जयतीर्थाधिपयात्रावर्णन नाम दशमः सर्गः ॥ वृद्धायाः किल सम्प्रतिक्षितिपतेः कीर्तिश्रियः साम्प्रतं कीर्तिश्री: पदमाससाद भवतः श्रीवस्तुपालात्मज ! ।
याऽवाप्यत दिग्वधूभिरभितस्ताराक्षतैरक्षतैः 20 दूर्वापत्रनिभाङ्कसङ्कुलशशिस्थालादुपात्तैरिव ॥
D:\chandan/new/bsnta/pm5\3rd proof