________________
10
दशमः सर्गः]
सङ्घराट् गुरुसमक्षमादृतो धर्मबन्धुभिरथावृतोऽभितः । स क्रमेण कलशान् कलाशयः पर्यलोठयदधीशमूर्द्धनि ॥७२।। युग्मम् ॥ ते पुनः पुनरुपेत्य भाविनस्तीर्थतोयभृतकुम्भमण्डलीम् । लोठयन्त ऋषभस्य मूर्द्धनि क्ष्माधरस्य जलदा इवाबभुः ॥७३॥ चन्दनैणमदकुङ्कमागुरुस्वेदसारघनसारकर्दमैः । निर्ममे तदनु सङ्घपार्थिवस्तीर्थनाथवपुषो विलेपनम् ॥७४।। मल्लिकाबकुलजातियूथिकाकेतकाब्जशतपत्रचम्पकैः । आदिनाथमथ सैष पूजयामासवासव इवावनीगतः ॥७५।। कङ्कणाङ्गदकिरीटकुण्डलस्वर्णदामभिरयं सुधामभिः । तं विभूष्य जिनमस्य हस्तयोwस्तवान् कनकबीजपूरकम् ॥७६।। धाम्मिकः स परिधामनेकधारूपधामभिरथांशुकैर्व्यधात् । यैस्त्रिलोकवनकल्पपादपः पल्लवैरिव जिनो व्यराजत ॥७७।। अग्रतो जिनपतेः सुदीपकश्रेणिकामयमकारयत् कृती । तत्प्रशस्तिमिव याञ्जनाक्षरैश्चैत्यभित्तिष लिलेख तत्क्षणात ॥७८।। वीक्ष्य सङ्घमिममुद्यतं भिया यः कलिर्मशकमात्रतामगात् । तद्विघातनकृतेऽगुरुच्छिदाधूमधूममथ स व्यपञ्चयत् ॥७९।। अक्षतानथ स दक्षतान्वितः सत्फलानि सफलीकृतेप्सितः । पक्वमन्नमथ तीर्थकृत्पुरोऽढौकयच्च जलमुज्ज्वलाशयः ।।८०|| अष्टधा मतिगुणैरलङ्कृतः सोऽष्टधा मदविधानवर्जितः । अष्टधेति जिनपूजनं व्यधादष्टधाऽपि निजकर्म हिंसितुम् ॥८१॥ आदिनाथजगतीजिनानथ सैष सङ्घजनतासमन्वितः । चन्दनस्नपनचर्चनार्चनैः कोटिशोऽपि समभावयत् क्रमात् ॥८२।। तेन चीनवसनैर्महाध्वजः कल्प्यते स्म जिनमन्दिरोपरि । स्वर्गमार्ग इव देहिनां करप्राप्य एव दिवि यो व्यराजत ॥८३॥ प्रेक्षणक्षणमथो विचक्षणस्तीर्थभर्तुरयमग्रतो व्यधात् । नर्तकीकुचतटन्नुटन्मणिस्रग्मणिप्रकरपुञ्जितावनि ॥८४॥ उन्नदत्प्रचुरतूर्यमुच्छलत्पुष्पवृष्टिं चलितोरुचामरम् । व्यादधेऽथ घनसारवर्तिकारात्रिकं जिनपतेरसौ पुरः ॥८५॥
15
D:\chandan/new/bsnta/pm5\3rd proof