________________
5
६२]
[वसन्तविलासमहाकाव्यम् ॥ पादलिप्तपुरसन्निधौ व्यधादुत्प्रयाणमथ सङ्घपार्थिवः । पञ्चवर्णपटमण्डपावलीच्छादितावनितलं समन्ततः ॥५८।। पादलिप्तपुरमण्डनं जिनं पार्श्वनाथमथ पापमन्थनः । सर्वसङ्कजनतान्वितः समभ्यर्च्य तीर्थगिरिमारुरोह सः ॥५९।। श्रीकपर्दिनमुदीर्णमुत्पुरः सङ्घविघ्नहतिनिघ्नमुत्परः । सङ्घभूपतिरुपेत्य पूजयामास मांसलसुवर्णपूजया ॥६०।। धर्मलाभमुचितं कपर्दिने ते वितीर्य गुरवः ससाधवः । सङ्घसङ्घपतिसंयुतास्ततस्तीर्थनाथभवनं प्रपेदिरे ॥६१।। भाविनोऽत्र नम्रतुः स्फुरत्कराः केपि केपि लुठदङ्गकान्यदुः । आदिनाथमवलोक्य केचन व्याहरञ्जय जिनेति भारतीम् ॥६२।। सङ्घराट् समभिसृत्य भूतलन्यस्तभालफलकः कृतानतिः । आदिनाथपदयोः प्रसारितोदारबाहुरुपगूहनं व्यधात् ॥६३॥ भावभासुरमनाः पुरः प्रभोरूर्ध्व एव सुकृती कृताञ्जलिः । तन्मुखाहितविलोचनोऽस्तवीत् तं नवीनकविताकिरा गिरा ॥६४।। तुभ्यमद्भुतगुणाय भूर्भुवःस्वःस्तुताय भवभीतिभेदिने । श्रीयुगादिजिननाथ ! योगिनां ध्यानगम्यपरमात्मने नमः ॥६५।। भक्तिवाद्धिलहरीमिति स्तुतिं प्रस्तुतां भगवतोऽभिधाय सः । सङ्घलोकगुरुभिः समं शमी व्यातनोत्तदनु चैत्यवन्दनाम् ॥६६।। तीर्थकुण्डजलमज्जनोत्तरैः श्वेतवस्त्रमयधोतिशालिभिः । निर्मितोरुमुखकोशचारुभिश्चन्दनाम्बुकृतपाणिकङ्कणैः ॥६७॥ इन्द्रतामुपगतैः सहस्रशो धार्मिकैः सह स धार्मिकाग्रणीः । काञ्चनीं कलशपङ्क्तिमाददे जन्मपर्वणि सुपर्वराडिव ॥६८॥ विशेषकम् ।। भाविभिः स्नपयितुं जगत्प्रभुं हेमकुम्भपटली करे कृता । क्षीरसारघनसारपञ्चकापूरितां कुसुमचारुपूजिताम् ॥६९।। आदिनाथजिननाथमज्जनं कर्तुमतिरजसां निमार्जनीम् । भाविनो दुरितभोगिमण्डलीजाङ्गुलीनिभमदम्भवृत्तयः ॥७०॥ वाद्यमानपटहोरुघण्टिकाझल्लरीमुरुजशङ्खनिःस्वैः । सङ्घपङ्कजदृशामुलूलुगीर्डम्बरे गिरिगुहासु मूर्च्छति ॥७१।।
15
20
D:\chandan/new/bsnta/pm5\3rd proof