________________
10
दशमः सर्गः]
[६१ पुण्डरीकगणभृत्पुरःसराः कोटिकोटिपतयो जितस्मराः । खेचराश्च बहवोऽपि विश्रुतास्तेऽपि पञ्च ननु पाण्डुसूनवः ॥४४॥ रामवालिशुकशेलकादयः कोटिशश्च यदवः कुमारकाः । नारदो द्रविडवालिखिल्यभूनायकाश्च दधिरे यतः शिवम् ॥४५॥ विंशतिः समधिकार्हतां त्रिभिर्यत्र विश्वमहिता ददौ पदम् । एकवेलमपि यस्य यात्रया दुर्गतिर्भवभृतां विलीयते ॥४६॥ दृश्यते नयनयोः सुधाञ्जनं सोऽयमुच्चतरशृङ्गसङ्गतः । धन्यपुण्यतमसङ्घभूपते ! साम्प्रतं विमलपर्वतः पुरः ॥४७॥ पञ्चभिः कुलकम् ॥ हर्षतस्तमवलोक्य भूधरं सङ्घराट् पटहतानपूर्वकम् । सङ्घलोकशकटेषु सर्वतो यन्त्रकेतनपटानलम्बयत् ॥४८॥ शैलमात्ममनसीव दर्पणे सङ्क्रमय्य सह धर्मबन्धुभिः । सङ्घभूपतिरसेवत श्रिया भासिभिः स्नपनचर्चनार्चनैः ॥४९॥ देवतालयजिनेशितुस्ततः सङ्कलोकगुरुभिः समन्वितः । वन्दनस्नपनचर्चनार्चनप्रेक्षणादि विततान सङ्घराट् ॥५०॥ सर्वतोऽपि रसपाकपण्डितैनिर्मिते रसवतीसमुच्चये । तत्प्रियाललितदेव्यथो यतीन् प्रत्यलाभयदतीव भक्तितः ॥५१॥ तेन सङ्घजनतासु जेमनं तासु निर्मितवतीषु सर्वतः । निर्ममे तदनु सङ्घभूभुजा भोजनं तदनु चास्य कान्तया ॥५२॥ कौतुकेन कलिकालजित्वरं वस्तुपालचरितं विलोक्य तत् । भानुमानथ जगाम जल्पितुं तूर्णमेव पुरतः प्रचेतसः ॥५३।। सन्ध्यया क्षणिकरागरम्यया संश्रितोज्झितमिदं जगद्दधे । यत्तमो द्विजपतिस्तदक्षिपन्निर्मलैरतितरां गवाम्भरैः ॥५४।। रोहिणीरमणकान्तिडम्बरे स्वैरमम्बरतले विलासिनि । स प्रयाणमथ सङ्घभूपतिनिर्ममे विमलपर्वतं प्रति ॥५५।। आन्तरं रज इव व्यपोहितुं चन्द्रमा गुरुवधूपभोगजम् । वाहवाहनसमुत्थितं रजःसङ्घयमङ्कमिषतो वपुष्यधात् ॥५६।। सङ्घयौवतसुचारुचर्चरीगीतलीनमनसः शनैः शनैः । गच्छतः सपदि सङ्घभूपतेरस्य सम्मुखमिवाययौ गिरिः ॥५७।।
15
25
D:\chandan/new/bsnta/pm5\3rd proof