SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ६०] [ वसन्तविलासमहाकाव्यम् ॥ सञ्चरच्छकटसङ्कटीभवन्मार्गपद्धतिरनुद्धताकृतिः । सङ्घपङ्कजमुखीमुखोच्चरचर्चरीरवपरीतदिङ्मुखः ॥३०॥ तीर्थवन्दनकृते ततः कृती तेजपालमयमात्मनोऽनुजम् । तं च वीरधवलं क्षितीन्द्रमापृच्छय सङ्घपतिरुच्चचाल सः ॥३१।। कलापकम् ।। अग्रतः सुबहु पृष्ठतोन्तरा चापि चापकरवालपाणयः । पत्तयोऽस्य पथि सङ्घभूपते सङ्घलोकपरिरक्षणं व्यधुः ॥३२॥ सर्वदा विजयसेनसूरिवाक्पूरितश्रुतिरयं तमश्चयम् । ब्रह्मचर्यमहसा महीयसा बाह्यमान्तरमपि व्यपोहयत् ॥३३॥ तीर्थवर्त्मनि स सङ्घराट् व्रजस्तीर्थनाथभुवनान्यपूजयत् । 10 जीर्णतामुपगतानि यानि तान्युद्दधार च गुरूपदेशतः ॥३४॥ पङ्कमग्नमथ भग्नमध्वनः सङ्कटे शकटमुत्कटः श्रिया । तन्नियुक्तपुरुषैः समुद्दधेऽसज्जयच्च स तदाप्तशिल्पिभिः ॥३५॥ बन्दिगाथकगणान्महात्मनां नामकीर्तनपरान् सुकीर्तनः । वाञ्छितार्थकरणैः प्रसादयामास चाध्वनि स पेशलध्वनिः ॥३६॥ वैद्यभेषजभरान्नवाहनाम्भोभिराभिजनकृत्यविज्जनम् । बाधितं क्षुधितमाहितश्रमं तषितं च सुखितीचकार सः ॥३७॥ निःस्वधार्मिकजनाननारतं सच्चकार वसनाशनादिभिः । दीनदुःस्थितजनं जनेश्वरः प्राप्तसम्पदयमन्वकम्पत ॥३८॥ भीतभीतमभयप्रदानतो दानतोयधिरसावमोदयत् । तीर्थमार्गनगरेषु शक्तितोऽमोचयच्च नृपबन्धनस्थितान् ॥३९।। तन्मनोवसतिनिष्क्रमं किलायाचितोऽपि पथि सङ्घभूपतिः । वाहनद्रविणधुर्यकादिकं यस्य यस्य न स तस्य तद्ददौ ॥४०॥ संहताभिरनुगोष्ठमञ्जसा फुल्लनेत्रकुमुदाभिरध्वनि । वीक्षितः कुमुदिनीनिभाभिराभीरभीरुभिरयं कलानिधिः ॥४१॥ सङ्घराट् वलभिपत्तनावनीमण्डलेऽतिसुरमण्डलेश्वरः । उत्प्रयाणकमचीकरत् कृती सङ्घलोकसुखदप्रयाणकः ॥४२॥ तत्र सङ्घपतये नवेन्दुवत्पावनो विमलसंज्ञितो गिरिः । अङ्गलीकिसलयाग्रसंज्ञया दर्शितो विजयसेनसूरिभिः ॥४३॥ D:\chandan/new/bsnta/pm5\3rd proof
SR No.009570
Book TitleVasant Vilas Mahakavyam
Original Sutra AuthorBalchandrasuri
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages211
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy