________________
[५९
दशमः सर्गः]
सम्मतं समजनिष्ट भूपतेरप्यदस्तदियमुर्वराधुरा । दुर्धरा त्वयि निवेशिता मया स्वांशतः समवतार्य सम्प्रति ॥१६।। त्वं प्रजा नयसुजातवाक्समावर्जयेः किमपि कोमलैः करैः । पश्य कोमलकरो निषेव्यते तारकैरपि शशी न भानुमान् ॥१७॥ दर्शनानि षडपि प्रसादयेरन्नपानवसनैर्यथायथम् । आशिषः किल तदाननोदिता वर्द्धयन्ति नृपराज्यसम्पदम् ॥१८।। मौलिसङ्घटितहस्तसम्पुटस्तत्तथा विनयनम्रकन्धरः । वस्तुपालसचिवेन्द्रशासनं तेजपालसचिवः समाददे ॥१९॥ मन्त्रिराट् गुरुनिदेशतस्ततः कौङ्कमी: प्रतिदिशं स पत्रिकाः । प्राहिणोदखिलसङ्घलोकमाह्वातुमौजसिकदूतपूरुषैः ॥२०॥ निस्तुषेऽहनि तदा महीयसा तं महेन महनीयकीर्त्तयः । मङ्घ सङ्घपतिनामदीक्षितं चक्रिरे विजयसेनसूरयः ॥२१॥ वासरेऽत्र रुचिरे गुरुक्रमानुज्ञया व्यधित देवतालयम् । सङ्घराट् परिसरे पुरो नदन्मङ्गलानकमुदारकेतनम् ॥२२।। दीयते स्म सुमहान् गुरूदरस्तस्य तत्र हिमवानिवोज्ज्वलः । सर्वतोऽपि पटमण्डपावली पादपर्वतनिभाऽस्य चाऽभवत् ।।२३।। स्यन्दनावलिपदातिमण्डलाऽश्वीयहास्तिकचमूसमन्वितैः । मण्डलाधिपतिभिश्चतुर्भिरावासितं नृपनिदेशितैरिह ॥२४।। लाट-गौड-मरु-कच्छ-डाहलावन्ति-वङ्गविषयाः समन्ततः । तत्र सङ्घपतयः समाययुस्तोयधाविव समस्तसिन्धवः ॥२५।। आगतां विविधदेशतस्ततः सैष सङ्घजनतां प्रमोदभाक् । वस्तुपालसचिवः शुचिक्रियः सच्चकार विविधैरुपायनैः ॥२६॥ संगृहीतयुगयोक्रवाहनस्नेहधान्यजलपात्रभेषजः । श्रीतिरस्कृतधनेश्वरः कपम्बिकाविहितसन्निधिः सुधीः ॥२७।। दीपिकाधरपदातिसूपकृच्छात्रिकादिकपरिग्रहोत्तरः । सङ्घसंहतियुतो गुरुक्रमावेदितेऽह्नि विहितोरुमङ्गलः ॥२८॥ वाजिराजिखुरखातमेदिनीधूलीधूसरितभानुमण्डलः । वाद्यमानघनमङ्गलानकध्वानडम्बरकरम्बिताम्बरः ॥२९॥
____ 25
D:\chandan/new/bsnta/pm5\3rd proof