________________
5
10
15
20
दशमः सर्गः ॥
.. वितं श्रीः प्रणस्यति च सान्ध्यरागवत् । तत्कृतार्थय सुतीर्थयात्रया वैभवं निजमिदं च वै भवम् ॥५॥ तीर्थवन्दनविधित्सया ततः सत्वरो गुरुनिदेशनादिति ।
एत्य वीरधवलं क्षितीन्द्रमित्याह संसदि स मन्त्रिचन्द्रमाः ||६|| क्षत्रियाः कलियुगेन दूषिताः सर्वतोऽपि न तु मामकः प्रभुः । कालतोऽप्यखिलधातुजित्वरी श्यामिका न कनकस्य जायते ॥७॥ पापकालकलिकालसङ्गतोऽप्येति नैव विकृतिं कृती जनः । उत्कठोररवकाकपोषितः क्वापि कूजति कटूनि कोकिलः ॥८॥ तत्कलावपि कला भवत्यसौ जृम्भते कृतयुगस्य पावनी । न्यायधर्मविधिषु प्रमाद्यते शश्वदेव न हि देव ! यत्त्वया ॥९॥ देव ! तीर्थपदवी दवीयसी निर्मिता कलियुगेन याङ्गनाम् । तां नितान्तमदवीयसीं त्वदादेशतो रचयितुं मनोऽस्ति मे ॥ १०॥ राज्यमेतदुपचीयते श्रिया जायते जगति सापि धर्मतः । जृम्भते स तु सुतीर्थयात्रया सापि देव ! भवति त्वदाज्ञया ॥११॥ मन्त्रिणा निगदितं महीपतिस्तन्निशम्य मुदितस्तमूचिवान् । वस्तुपाल ! मम भालसल्लिपिः कापि यस्य सचिवो भवादृशः ॥१२॥ येन येन विधिना विजृम्भते राज्यमेतदधिकाधिकं मम । तं तमर्जयितुमिच्छया भवान् मामकं प्रतिशरीरमर्हति ॥१३॥ भूभुजापि तदिति प्रणोदितः श्रीवसन्तसचिवः प्रमोदभाक् । तेजपालमथ बन्धुमात्मनो बन्धुवागिति रहस्यभाषत ||१४|| आत्मगोत्रगुरुभिर्ममेदमावेदितं सकलतत्त्ववेदिभिः । यत्कृतार्थय सुतीर्थयात्रया वैभवं निजमिदं च वै भवम् ॥१५॥