________________
5
10
15
20
25
५६]
[ वसन्तविलासमहाकाव्यम् ॥
असावलसपद्मिनीवनविकाशवैहासिकस्तमिस्ररिपुरंशुमानुदयकोटिमाटीकते । असावपि दधन्निशाशवमिवाङ्कलेखां निशापतिः पिपतिषत्यहो चरमवार्द्धिमस्ताचलात् ॥४५॥ अनङ्गजगदीशितुर्नमसराजधानीव यस्त्रिविष्टपदृगुत्सवस्तिमिरवृष्टिमुष्टिन्धयः । स कोऽपि रजनीपतिस्तनुमरीचिरस्ताचले लुठन्जरठजाहकाकृतिमवाप धिग् वेधसम् ॥४६॥ व्यदारयदयं हरि स्ववरकन्दलैर्यत्तमोहिरण्यकशिपोरुरः स्फुरितसान्ध्यरागारुणम् । इतस्तदसिदण्डवत्तदपतद् दण्डो महानितश्च निपपात तत्फलकमण्डलं चन्द्रमाः ||४७|| जपाकुसुमकाम्ययाकृषति पुष्पलावी वने नखक्षतधिया वपुष्यपि दधाति मुग्धाङ्गना । महोऽरुणमहर्पतेर्निजतरुस्थमासेवते कुसुम्भजलशङ्कयांशुकभरेण कौसुम्भिकी ॥४८॥ पुरोगिरिगुरूदरोपरि सुवर्णकुम्भः क्षणं नभोङ्गणमयस्वसुर्जठरकूपिकापङ्कजम् । तमस्तरलपन्नगावलिविलोपतार्क्ष्यस्त्विषामयं वितपते पतिर्ननु तवेव तेजःकणः ॥४९॥ कोकः शोकं त्यजति तिमिरं त्रस्तमस्तश्चकोरीहर्षस्तर्षान्नलिनमलिनः प्रीतिमन्तः पिबन्ति । प्राच्यप्रत्यग्गिरिकरिशिरोगण्डयोर्भास्वदिन्दू सिन्दूरस्य श्रियमभजतां स्मेरबन्धूकबन्धू ॥५०॥ तुलयति नभोवृक्षो बालः प्रवालमिहार्यमा विधुरपि मधुच्छन्नं लक्ष्मच्छलोषितमक्षिकः । क्षितिरपिहिता देहिच्छायामिषाज्जलजन्तुभिस्तिमिरजलधौ पीतेऽगस्त्यानुकारमनूरुणा ॥५१॥
D:\chandan/new/bsnta / pm 5 \ 3rd proof