SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ [५५ नवमः सर्ग:] वने वृणितुमद्य भोः क्व ननु गंस्यते कथ्यतामितीव सति काहले खगकुलस्य कोलाहले । समन्यु मिलति त्रसत्यभयमन्यदालम्बते वधूवरमरागि चोन्मिषति रागिट्हत्ताम्यति ॥३८॥ इतः कुमुदखण्डवन्मिलति खण्डितालोचनं विशीर्यति विधूस्रवत्कुसुममण्डपः कामिनाम् । इतश्च रतदीपकाश्रयमपास्य सन्ध्यातपच्छलादभिययौ महःपतिमुपेयिवांसं महः ॥३९॥ इतो हरिहरिन्मुखे धरति भानुभापल्लवान् भचक्रमपचीयते भ्रमति कान्दिशीकं तमः । इतश्च गगनश्रिया हि पणयोषितेवाऽखिलं विनाश्य वसु चन्द्रमाः पितरि याति रत्नाकरे ॥४०॥ इतो विलुलितालका रमणमन्दिरेभ्यः पणस्त्रियो निजगृहानमूः किमपि यान्ति निद्रालसाः । इतश्च पटुकुक्कुटस्वनविनीतनिद्रागमाः पुनन्ति कुलयोषितः प्रतिनिकेतमेताः क्षितीः ॥४१॥ इतो रजतभाजनं शशिनमङ्कतोयाङ्कितं सधिष्णयलवणं तवोपरि निरस्य विश्वश्रिया । सहस्रकरदीपकैरविरितोऽपि चारात्रिकं विभातभविकक्षणे प्रगुणमेतदासूत्र्यते ॥४२॥ परोपकृतिमिच्छता भुवनमेतदुत्पित्सता ऽधुना कमलबन्धुना भगवता विदोषं कृतम् । अतो गगनमण्डलाद् व्रजति पात्रमङ्कात्मिकामुपानहमिहानने दधदपास्तकान्तिः शशी ॥४३।। इतोऽयमुदयन् रविस्त्वयमितोऽस्तमिन्दुः प्रयानुभावपि विभागुणप्रगुणबन्धनौ द्वौ मिथः । प्रबोधसमये तवोल्लसितकालमार्दङ्गिकाङ्कितोडुपथमर्दलानकपुटत्वमासेदतुः ॥४४।। D:\chandan/new/bsnta/pm5\3rd proof
SR No.009570
Book TitleVasant Vilas Mahakavyam
Original Sutra AuthorBalchandrasuri
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages211
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy