________________
[५३
10
नवमः सर्गः]
दिशामधीशा मघवादयोऽमी यज्जज्ञिरे मन्दिरमिन्दिरायाः । यज्ज्ञानपात्रं च बभूवुरेते देवर्षयो देव ! स तेऽनुभावः ॥१२।। ग्रीष्मार्कभीष्मातपदावदाहवारीणि वारीणि वसुन्धरायाम् । मुञ्चन्ति यद्वारिमुचः कुतोऽपि स प्राभवः खेलति सुप्रभावः ॥१३॥ इदं स्वसंवेदनतो मनो मे यद्वेत्ति तत्ते गदितं पुरस्तात् । अतः परं त्वद्वदनादशेषं निबोद्धमिच्छामि विभो ! विशेषम् ॥१४॥ देवोऽथ सामिस्मितपूर्वमम्भोधरध्वनिः स ध्वनयन् दिगन्तान् । तमङ्गरङ्गत्पुलकश्चलुक्यमाणिक्यचाणक्यमिदं वभाषे ॥१५॥ वृषश्चतुष्पादभवं पुराऽहं युगं यदासीत् कृतनामधैयम् । ततोऽपरस्मिन्नभवं त्रिपादोऽन्यत्र द्विपादोऽजनिषं ततोऽपि ॥१६॥ हे विश्वबौधेय ! यदात्थ तत्ते सर्वं समीचीनमहीनबुद्धे ! । यद्वेधसा त्वं त्रिदशावलीनामंशानुपादाय विनिर्मितोऽसि ॥१७।। कलौ युगेऽस्मिन्नयमेक एवावशिष्यते विश्वधुरीणपादः । पश्यन्ति तं भूमिभुजो न पादोऽवधार्यतामित्यपि दर्श्यमानम् ॥१८॥ पापेन क्लृप्तच्छविनाऽऽतपत्रच्छायापदेशेन परीतदेहाः । धात्रीभुजो धर्म इति प्रतीतं नामापि नामी मम ही सहन्ते ॥१९।। पुरा सुराज्यश्रियमाप्य मत्तो मामेव सम्प्रत्यवजानते ये । धात्रीधवानां कुधियाममीषां को नाम नामपि समाददीत ॥२०॥ श्रीमूलराजः स जगाम राजा ययौ च स श्रीजयसिंहदेवः । सोमेशयात्राभिरनैषि विश्वमनीषितां स्फातिमहं यकाभ्याम् ॥२१॥ श्रीसिद्धराजः समधत्त राजविहारमाक्रीडनकोपमं मे ।। ग्रामांश्च शत्रुञ्जयसाच्चकार स द्वादशाऽस्मन्महसः प्रवृद्ध्यै ॥२२॥ जगाम च श्रीजयसिंहदेवमाता सती सा मयणल्लदेवी । मत्खेलदोला किल सोमनाथपथो ययाऽमोच्यत बाहुलोडः ।।२३।। यया च सोमेशपथे यथेच्छं तीर्थाध्वनीनोपकृतान्नतोयैः । सत्रा मनोभिर्जगतोऽपि सत्रागारैरभिग्राहितसंश्रयोऽहम् ॥२४॥ कुमारपालः क्षितिपालरत्नमालेख्यशेषत्वमवाप सोऽपि । असूत्रि शत्रुञ्जय-रैवताद्रियात्रोत्सवैर्येन ममाभितोषः ॥२५।।
15
200
D:\chandan/new/bsnta/pm5\3rd proof