________________
नवमः सर्गः ॥
10
सञ्जातनिद्रोऽथ विनिद्रकीर्तिः स्वप्नान्तरासौ नितराममात्यः । एकाङ्घ्रिमेकं सुरमुत्तरन्तं दिवो ददर्शातिशयैः स्फुरन्तम् ॥१॥ सप्तर्षिभिस्तैरभिवन्दमानमन्वीयमानं च दिशामधीशैः । विरञ्चिपुत्रेण धृतातपत्रं ग्रहाधिपाभ्यां धुतचामरं च ॥२॥ पाणौ श्रियं पङ्कजभाजि वामे वामेतरे चापि गिरं दधानम् । निजाङ्गभासां भृशमङ्गभाजां नेत्रेषु पीयूषमिव क्षरन्तम् ॥३।। विशेषकम् ।। अभ्यापतन्तं तमथो विलोक्य मुत्कौतुकावेशवशो वसन्तः । पीठं तु पीठं ददतार्घमर्घमिति ब्रुवन् सत्वरमभ्युदस्थात् ॥४॥ स्वचेतसीवामितभक्तिचित्रे तुङ्गे विशाले कलधौतरम्ये । निवेशयामास नवे नृसिंह: सिंहासने तं सह वासवाद्यैः ॥५॥ तद्दत्तहेमासनमूनि कृत्वा वृषीमृषीन्द्रेषु निषेदिवत्सु । ददौ तदौचित्यविदेष मन्त्री रत्नार्घमेतस्य ततोऽपरेषाम् ॥६॥ मानी समानीय स मानितार्थी पाणी प्रमाणीकृतसाधुवृत्तः । कृतानतिर्वाचमिमामुवाच भूत्वा पुरो मन्त्रिपुरन्दरोऽस्य ॥७॥ हे नाथ ! पूर्वं मम चेदमीषामपूर्ववद्भासि विलोचनानाम् । तथापि वेत्तीव मनस्तदेवं धर्मोऽसि यत्त्वं जगदेकबन्धुः ॥८॥ तपोजपोद्योगदयादमैस्त्वामुपासते स्मानिशमङ्गिनो ये । तेषामियं गी: समुदेति देहे गेहे च लक्ष्मीरियमभ्युपैति ॥९॥ पर्यायलब्धोदयदीप्यमानाविमौ विभाधीशविभावरीशौ । विश्वप्रकाशं कुरुतोऽनिशं यत् किल प्रभो ! ते स खलु प्रभावः ॥१०॥ क्व वातभक्षी भुजगः क्व मुस्तालोलो नु कोलो जडधीः क्व कूर्मः । क्व ते विसञ्ज्ञा गिरयः क्व मत्ता नागाश्च गामुद्वहसि त्वमेव ॥११॥
15