________________
अष्टमः सर्गः]
[५१ दम्पती बत रतान्तनिर्भरालिङ्गनादपिषतां मणिस्रजम् । मत्तयोर्नियतमन्तरागतो दुस्तरां विपदमेति को न हि ॥६८॥ पञ्चबाणशरशल्यिताः स्त्रियश्चुम्बकानुरसि यद्दधुः प्रियान् । रोमकण्टकमिषेण तेन ता निःसृतेषव इवाभितो बभुः ॥६९।। इत्थं मन्मथकेलिसङ्गरपरिस्पन्दाय मन्दायितान् यूनः स्वस्वतनूष्वनूननखनाराचवणं बिभ्रतः । व्यापद्वारणमत्तवारणमयं मध्ये प्रविश्योच्चकै
र्बन्दीवेन्दुरुदञ्चिपाण्डुरकर: प्रोत्साहयामासिवान् ॥७०॥ इति सिद्धसारस्वताचार्यश्रीबालचन्द्रविरचिते वसन्तविलासनामनि महाकाव्ये
चन्द्रोदयवर्णनो नाम अष्टमः सर्गः ॥ पातं भैरवमातनोतु रभासादस्ताचलादन्वहं शम्भोौलिवने तपस्यतु कृशो वा जाह्नवीसैकते । खण्डीकृत्य ददातु वा क्रतुभुजामात्मानमीशो निशां श्रीमन्त्रीश्वर जैत्रसिंह ! भवतः सौम्यं तथाप्येति न ॥
10
D:\chandan/new/bsnta/pm5\3rd proof