________________
५०]
[वसन्तविलासमहाकाव्यम् ॥ नो तथा मधुरमग्रतस्तया पीतदत्तमभवद्यथा मधु । प्रत्ययादिति पपौ स्त्रियोऽधरं कूजितेन सुकृती स्तुवन्निव ॥५४॥ क्षीबभावमधिगम्य भामिनी वीक्ष्यमाणपदमुख्यमक्षरम् । यदृशायितमुवाच तन्मनोजन्मनो जननमन्त्रतां ययौ ॥५५॥ मन्मथस्य जनिभूरसो भृशं मूर्तिमानिव सितेतरच्छवि । पीतमात्रमपि मैथुनोद्यमे कस्य कस्य न हि कम्पमातनोत् ॥५६।। सुभ्रुवां दयितबाहुचुम्बनालिङ्गनैविकसदङ्गसम्पदाम् । अन्तरीयमगलन्नितम्बत: कञ्चुकस्य गृहकाणि तुत्रुटुः ।।५७।। स्वस्तिकीकृतभुजा कुचग्रहे मीलितोरुयुगलांशुकाहतौ । वल्लभेन न न नेति वादिनी पर्यरम्भि दशताऽधरं वधूः ॥५८॥ निर्दयं रहसि चुम्बति प्रिये मीलितार्द्धनयना नितम्बिनी । प्राप तैमिलिकलोलिताङ्गलीवाद्यमानतिमिलेव कूजनम् ॥५९॥ मन्मनस्त्रिदशमन्दिरोदरे देवि ! दैवतमसि त्वमेव हि । यत्कृते क्रुधमुपैषि ताः पुनश्चन्द्रचारुमुखि ! शालभञ्जिकाः ॥६०॥ विग्रहं यदि न मोक्ष्यसीति मे जीव एष जवतस्तु मोक्ष्यति । स्थानके नय भुजानिपीडनात्तेन कण्ठगतमेनमञ्जसा ॥६१॥ कश्चिदेवमभिधाय मानिनीं तद्धवोऽधरदलस्थितं कटु । नि:पपौ दरनिमीलितेक्षणस्तत्क्षणात् कटरि धूर्तचेष्टितम् ॥६२॥ विशेषकम् ॥ पर्यरम्भि करकृष्टचीवरः प्रौढयोरुकुचया तथा वरः । निर्निवास्य सहसा परामहो तद्धृदन्तरनया यथोषितम् ॥६३।। यासि रे क्व नु किलेति वादिभिः कङ्कणारवपरैः प्रियाकरैः । द्राग् धृतः कटकटीरवाससस्तस्करः प्रियकरो व्यकम्पत ॥६४॥ चाटुमन्त्रचतुरेण केनचिन्मानभूतमवधूय मानिनी । लीयते स्म शयनीयमण्डले मान्मथीं ग्रहिलतामिहाद्भुतम् ॥६५॥ वल्लभेन सह सन्नसङ्गरश्रीपुषोऽन्वितसमाङ्गमञ्जसा । तेनिरे रणितवन्ति योषितः कङ्कणानि रणतूर्यविभ्रमम् ॥६६॥ उल्लसन्नखपदप्रवालकैः स्फारहारलतिकाम्बुधारिभिः । अभ्यषिच्यत रतोत्सवे स्मरः कामिनीकुचघटैर्वरोरसि ॥६७॥
D:\chandan/new/bsnta/pm5\3rd proof