________________
[४९
अष्टमः सर्गः]
योषितां यदिह गोप्यमंशुकाडम्बर: प्रकटयाम्बभूव तत् । स्वच्छगौरगुणगुम्फिताकृतिः केवलं न हि पुनः सखीजनः ॥४०॥ योषितो मदनकेलिनाटिकामारिषस्य वदनामृतत्विषः । पक्षयोर्विदधिरे द्वयोरपि स्वर्णकुण्डलनिभभ्रकुंसकौ ॥४१॥ प्रेयसो भुजलतापदे महस्तारहारलतिकानिवेशनात् । पुष्पबाणगणकाज्ञयैव ताः सन्मुहूर्तमचिरादतारयन् ॥४२॥ कामकेलिसमरे पुरोभटाः पाणयः शितनखक्षुरीभृतः । दत्तरत्नकटकैः प्रसादयाञ्चक्रिरे चटुललोचनाजनैः ॥४३॥ निर्ममे निधुवनोत्सवागमे तोरणस्रगिव मेखलामिषात् । कामिनीभिरमलोरुकाञ्चनस्तम्भिकोपरि नितम्बपत्तने ॥४४॥ यौवनं चलमुपैति नो गतं विग्रहैरलमुपास्यतां प्रियः । इत्यवोचदिव झङ्कृतैर्वधूः पादयोरभिनिपत्य नूपुरम् ॥४५॥ चक्रुराहितविभूषणा यदा योषितो दयितमार्गमार्गणम् । ते तदैव पुरतः समाययुः कामदूतकथितक्षणा इव ॥४६।। मन्मथातिथिषु तेषु सम्भ्रमादागतेषु भृतरोमविक्रियाः । पीवरस्तनफलद्वयेन ता योषितोऽर्घमचिरादढोकयन् ॥४७॥ आस्तृतोरुशयनीयसन्निधिप्रक्वणत्कलरवेषु तत्क्षणम् । वल्लभैः सह सरोजलोचना वासवेश्मसु निवासमादधुः ॥४८।। सुभ्रुवामपसृते सखीजनेऽन्तद्विभाजि च रतालयोदरे । प्राणवल्लभजुषां प्रदीपका जज्ञिरे सुरतकेलिसाक्षिणः ॥४९।। कामुकेषु दयिताधरामृतं नि:पिपासुषु मितोऽप्यथो सुरा । फुल्लपद्मवदनालिकूजितैरात्मनोऽवसरमभ्यधादिव ॥५०॥ यन्मिथोप्यपिबतां प्रियापितं दम्पती मधु तदोष्ठपल्लवः । पीड्यमानवपुरेतयोर्ददावस्तु धैर्यमथवाऽधरे कुतः ॥५१॥ बोधिते च किमपि प्रसन्नयाऽन्तः प्रविश्य बत मानवत्यपि । सागसोऽपि दयितस्य नम्यभून्नाम तत्कथमवाप्यतेऽन्यथा ॥५२॥ तामपास्य पिबति प्रियामुखं कामुकेऽर्द्धविनिमीलितेक्षणम् । मुग्धयोषिदिव रोषिता सुरा झङ्कृतैर्मधुलिहामिवारुदत् ॥५३।।
____ 25
D:\chandan/new/bsnta/pm5\3rd proof