________________
5
४८]
[वसन्तविलासमहाकाव्यम् ॥ आतपत्रमिव पूर्वभूभृतः केलिदर्पण इवाम्बरश्रियः । आलवाल इव शर्मभूरुहः शोभते स्म सकलोचितः शशी ॥२६।। कलापकम् ।। भानुमानपरया तिरोहितः खेलतीति हृदि सम्भृतेर्ण्यया । पूर्वया स्वमतिलोहितं तमोऽन्तद्धिकोपरि विधुच्छलं दधे ॥२७॥ स्फारतारकमुदस्य जम्भजिद्दिग्वधूवदनमञ्जसा विधुः । निश्चुचुम्ब करकोटिकुञ्चितध्वान्तकुन्तलमतीव रागवान् ॥२८॥ मानिनीस्मयमसाध्यमायुधैः कौसुमैरिति विचिन्त्य तच्छिदे । मञ्जु चक्रमिव चन्द्रमण्डलं सस्फुलिङ्गमुडुभिः स्मरोऽमुचत् ॥२९॥ मुक्तमर्यमकरैर्नभो भुवि भ्रष्टमन्धतमसौघदम्भतः । चन्द्रमाः स्वकरलीलयाऽदधान्मङ्क्ष विष्णुरिव पर्वतं पुरा ॥३०॥ पुष्करावकरभूमिकां क्रमैरुल्लिखन्नुदघसत्तमःकृमीन् । आवृतोऽयमुडुशावकै रतेः केलिकुक्कुट इवोत्कटं शशी ॥३१॥ किं रदैरघटि द्वैरदैरथामाजि किं नु सुधयोदधाविव । रोहिणीरमणरोचिरञ्चितं सर्वतो जगदिति व्यतयंत ॥३२॥ यत्र यत्र शशिनः प्रभाभवत्तत्र तत्र सहचारिलक्ष्मणः । कालिकापि पदमासदत् प्रतिच्छायकैतवतया महीतले ॥३३।। छाययाऽवनिरुहां दलान्तराविष्टचन्द्रकितचन्द्रिकाभृता । प्रौषि निर्मलविधूस्रतोमरश्रेणिविद्धपतितान्धकारता ॥३४।। पूरयन्त इव शङ्खमुच्चकैरुन्मिषत्कुमुदचुम्बिनोऽलिनः । कूजितैर्युवतिचित्तशायिनं कामभूपमचिरादबोधयन् ॥३५॥ जागरूकमहसो मनोभवः शासनादिव तदा मगीदृशः । वल्लभाभिगमनोत्सकाशया मण्डनानि वपषो वितेनिरे ॥३६॥ ऐन्दवेऽपि सति धाम्नि तामसं स्वैरिणीजनमन:प्रियाकरम् । तेनिरे मृगदृशः शिरोरुहां धूपनागुरुजधूमवीचिभिः ॥३७।। बाणकोशमिव पुष्पधन्विनः केशपाशमरविन्दलोचनाः । वृन्तदण्डदलकोशतोमरैः सायकैरिव सुमैरपूरयन् ॥३८॥ चन्दनद्रवविलेपनच्छविर्योषितामधिवपुर्व्यराजत । गन्धधूलितिलकाङ्किताननश्वेतवाजिन इव प्रभाभरः ॥३९॥
D:\chandan/new/bsnta/pm5\3rd proof