SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 10 अष्टमः सर्गः] [४७ तत्क्षणं विरहिणो रथाङ्गयोर्दुःखदावदहनोऽदहन्मनः । तद्धृवेव तु वनानि धूम्रया मिश्रितानि परितस्तमिस्रया ॥१२॥ स्वैरिणीजनदृशां रसाञ्जनैः श्यामिकाविजितचिक्वसाञ्जनैः । कौशिकप्रकरगोत्रदैवतैस्तामसैः प्रववृते तदैव तैः ॥१३।। विच्छुटत्तिमिरकुन्तला रवावस्तमीयुषि विभौ दिगङ्गनाः । तेनिरे तरलतारकव्रजव्याजमश्रुजलबिन्दुवर्षणम् ॥१४॥ भोजिता यदनुमन्दिरं खेस्तर्पणार्थमिव वर्णसत्तमाः । घस्मरास्तदवमंस्तमोधिकं सज्जकज्जलमिषेण दीपकाः ॥१५।। कोसिकासरसि तैलशम्बरे वर्तिनालकलिता विरेजिरे । कज्जलभ्रमरधोरणीभृतः स्वर्णपङ्कजरुचः प्रदीपकाः ॥१६॥ दीपयष्टिफणिनो निजप्रतिच्छायकुण्डलितभोगशालिनः । मल्लिकास्फुटफणोपरिस्थिता रत्नतामबिभरुः प्रदीपकाः ॥१७॥ कालपाशपतितेऽथ भास्वति पूर्वदिक्कुलवधूर्विलापिनी । यच्छति स्म निजकौमदीमिषादन्धकारतिलमिश्रितं पयः ॥१८॥ प्राचिकाचलकुचे नखक्षतं यामिनीयुवतिमूर्ध्नि किंशुकम् । व्योमकीरवदने सृपाटिका रत्युदन्वति च विद्रुमाङ्करः ॥१९॥ कैरवच्छदकपाटकुञ्चिका मानिनीमदकुरङ्गकर्तरी । ध्वान्तधान्यलवनैकदात्रिका विश्वशर्मलिपिमातृकाकृतिः ॥२०॥ अङ्कशं प्रमददन्तिनस्ततज्यं धनुः कुसुमबाणधन्विनः । दुर्जनाशयदशैकबान्धवी वैधवी समुदिता बभौ कला ।।२१।। विशेषकम् ॥ 20 अर्द्धमात्रमुदितं घुयोषितः स्कन्धलम्बिसुरवाहिनीगुणे । अग्रदण्डमणिवल्लकीचये तुन्दतामधित बिम्बमैन्दवम् ॥२२॥ ज्योतिराविरभवत्ततः कला तूर्णमर्द्धमथ पूर्णमूर्त्तिता । कालतः किल महोदयं चतुःस्कन्धजल्पितमिवाप चन्द्रमाः ॥२३॥ कामकोलपतिपोत्रमिन्दिरासन्दिका रजनिभालभूषणम् । स्वैरयोषिदभिचारमण्डलं विश्वनेत्रजलकेलिपल्वलम् ॥२४॥ दिग्वधूवलयकेलिकन्दुक: कौमुदीमथिततक्रसारकम् । विप्रयुक्तजनयन्त्रगोलकोऽहर्बुभुक्षितचकोरमोदकः ॥२५॥ 15 ___ 25 D:\chandan/new/bsnta/pm5\3rd proof
SR No.009570
Book TitleVasant Vilas Mahakavyam
Original Sutra AuthorBalchandrasuri
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages211
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy