________________
अष्टमः सर्गः ॥
10
वस्तुपालसदृशो दृशोः पथि क्वापि कश्चन समेति वा न वा । द्रष्टुमित्थमिव भानुमानथ द्वीपमन्यदुपयातुमैहत ॥१॥ स्यन्दनाश्वरखुरखातपश्चिमाखर्वपर्वततटीसमुत्थितैः । धातुरेणुभिरिवार्यमाऽभवज्जागुडद्वगुडच्छटारुणः ॥२॥ सान्ध्यमेघदलकैरितस्ततो हिङ्गलारुणतमैविरेजिरे।। शोणपट्टवसनात्मभी रविस्यन्दनध्वजपटैरिवोद्भटैः ॥३॥ अस्तशैलशिखरेऽपतन्नभःशाखिपक्वफलमर्कमण्डलम् । तद्रसैरिव समुत्सृतस्तत: सान्ध्यरागविसरै शायितम् ॥४॥ पूर्वपर्वतगुहाविनिःसृतध्वान्तभल्लुकभयादिवोच्चकैः । नश्यतो दिनकपेवितितास्याकृति दिनकृदाप शोणरुक् ॥५॥ लुप्यमानपटिमा तमोऽङ्करैस्तुङ्गतुङ्गशिखरेषु तस्थुषी।। रागिणी रुचिवधूनिजेशितुः प्रेक्षत प्रवसतोऽधिकं वपुः ॥६॥ वारुणीपरिचयादिवारुणीभूतमूर्तिरपरोदधेस्तटे। व्यालुठत्तरणिरुज्झिताम्बरः किं कुकर्म कृतमायतौ शुभम् ॥७॥ अस्तमेति भवतामयं रिपुर्गृह्यतां जगदितीव भाषिणः । कोटरस्थतमसामिव स्पशा वायसाः प्रतिदिशं ववासिरे ॥८॥ उल्लसद्विटपबाहवो द्रुमा व्याहरन्निव खगारवैरिति । वेधसाऽपह्रियते दिवाकरः किं न धावत हहा दिगीश्वराः ! ॥९॥ पश्चिमादिगबलोत्तरीयकाम्भोधिवीचिचटुलाञ्चलानिलैः । वद्धिते सति रविप्रदीपके प्रासरद्भुवि निरङ्कशं तमः ॥१०॥ क्षुद्रतामलिनताकलङ्किताभाजनैरुडुतमोनिशाकरैः । वीक्षितैरलमितीव पद्मिनी पद्मलोचनमहो न्यमीमिलत् ॥११॥
20