________________
सप्तमः सर्गः]
[४५ सदप्यसद्भ्रान्ति वपुष्यनाविलं जलार्द्रभावाद् दृढसङ्गि चीवरम् । स्त्रियो दधत्यः स्मरकेलिदौहृदं हृदन्तरा कामवतां वितेनिरे ॥६८।।
औज्झन्जलाविलमनाविलदेहभासो वासोऽपरं परिदधुश्च पुरन्ध्रयस्ताः । अन्यातिशायिगुणगीतमपि प्रसह्य वैरङ्गिकं जनयते जडिमैक एव ॥६९।। अथ मिथुनसमूहोऽन्योन्यवक्रावलोक...................श्रीमन्त्रिसुत्रामगृह्यः । प्रमथितजलराशिः स्वं निवासं जगाम
त्रिदशगण इवोच्चैरच्युतोपात्तलक्ष्मीः ॥७०॥ इति सिद्धसारस्वताचार्यश्रीबालचन्द्रविरचिते वसन्तविलासनामनि महाकाव्ये
पुष्पावचयदोलाजलकेलिवर्णनं नाम सप्तमः सर्गः ॥ सद्धारभटीनिरस्तनरकः सत्यानुरागी स्वयं देवो विष्णुरिव प्रमोदयति नः श्रीजैत्रसिंहो मनः । यस्य ध्वस्तरजाः सदाचरणजा कुन्देन्दुधामोज्ज्वला कीर्तिर्देवनदीव दीव्यतितमा विश्वावनीपावनी ॥
D:\chandan/new/bsnta/pm5\3rd proof