________________
5
10
151
20
25
४४]
[ वसन्तविलासमहाकाव्यम् ॥
नितम्बिनीभिः करकैरवाहतं नदन्नदाम्भोतिघनानकध्वनि । तटद्रुमालीतलरङ्गमण्डपेष्वनीनृतन्मेघसखं भ्रकुंशयत् ॥५४॥ विधूयमानेषु विधूभिरम्बुजेष्वलिव्रजो व्योम जगाम झङ्कृती । अमूनि ते चन्द्रमुखीजनोऽधुना धुनाति भानोरिति वा निवेदितुम् ॥५५॥ गतो निलीनप्रियमम्बुजाकरं प्रियामुखभ्रान्तिभरेण पङ्कजम् । उपांशु चुम्बन् भ्रमरीद्रुताधरो मुमोद कश्चिन्न विवेद तत्तथा ॥ ५६ ॥
अहो चिरोढस्य धिया चिराम्बुजं तिरोहयन्त्येकतमेन वारिभिः । धवो नवो यस्य धिया नवाम्बुजं चुचुम्ब धृत्वाऽन्यतमेन पाणिना ॥५७॥ प्रियं स्वनामग्रहपूर्वमाननभ्रमेण चुम्बन्तमुदीक्ष्य पङ्कजम् ।
सखीषु जातामितगौरवा मुदं बभार काचित्तदचुम्बितापि हि ॥५८॥ प्रियः सपत्नीवदनं सरोरुहभ्रमेण वेणीस्फुटनालमर्पयन् ।
बलिः क्रिये तेऽहमिति ब्रुवाणया कयापि गाढं परिरभ्य चुम्बितः ॥ ५९ ॥ मृगीदृशां कान्तकराम्बुसेवने स्विद्येह कैः सात्त्विकभावसम्भृतैः । ममज्जुरम्भोजवनानि तन्मुखप्रभाजितानीव नदे प्रवर्द्धिते ॥६०॥ प्रिये पुरस्तादथ यन्त्रवारिणाऽभिषिञ्चति प्रान्तनिमीलितेक्षणा । पराञ्चयन्त्यन्तरदत्तहस्तका न का सकामं म म मेत्यभाषत ॥ ६१ ॥ विलोकमाने जलकेलिसम्भ्रमश्लथोत्तरीयं जघनं घनस्तनी । प्रिये परा तन्नयनांशुपद्धतीः पराञ्चयन्तीव पयोऽभ्यचारयत् ॥६२॥ तथा जलं न प्रियपाणियन्त्रजं ततान कस्याश्चन शीतलं वपुः । यथा कटाक्षप्रसरः प्रतिस्त्रियो हगन्तजन्माऽज्वलदग्निलोहितः ॥६३॥ विपक्षमासिच्य पुरो यदि प्रियोऽमुचत्तमां वारणमस्त्रमञ्जसा । हुताशनास्त्रं न कटाक्षलक्षणं तथापि कस्या अपि शान्तिमासदत् ॥ ६४॥ मनस्विनीमानसवज्रकङ्कटः स्मयः स्मरास्त्रैर्न विशीर्यते स्म यः । जलप्लवैः स प्रियपाणियन्त्रजैः सितासिदण्डैरिव खण्डशः कृतः ॥६५॥ मनोञ्चलग्रन्थिविभेदनोद्यतैः क्व मानरलं गमितं भवादृशैः । इतीव गाढं गलकन्दले प्रियान् विधृत्य नार्यो जलतो विनिर्ययुः ||६६|| नदाद्विनिर्यातमथाङ्गनागणं करावलम्बीकृतकान्तकन्धरम् । पयस्तरत्पङ्कजभृङ्गभाषया स्तुवत्किलोपारुधदग्रतः सृतम् ॥६७॥
D:\chandan/new/bsnta / pm 5 \ 3rd proof