________________
सप्तमः सर्गः ]
नितम्बभाराच्चरणौ स्वनूपुरारवैर्नितम्बः स्तनभारतोऽपि च । चक्रन्द काञ्चीनिनदेन योषितोऽधिदोलमुन्नम्रविनम्रवर्ष्मणः ॥४०॥ द्रुताहता व्योमचरैर्यदाम्बरेऽन्तरे यदा हन्त गतागता भुवि । भियेति कस्याश्चन वल्लभस्तदाऽश्वसद्यदासौ विरराम दोलनात् ॥४१॥ प्रसूनदोलादि विहाय खेलनं स्त्रियः प्रचेलुर्जलकेलये ततः । प्रभुक्तवस्तूपरिमन्दितादरो नवं नवं वस्तु जनोऽभिकाङ्क्षति ॥४२॥ वधूजनेऽस्मिन् जलकेलिहेतवे प्रयाति पुष्पाणि विलुण्ट्य वीरुधाम् । तदन्वधावन्नलयो विराविणः स्ववस्तु को नश्यदुपेक्षते पुरः ||४३|| भुजैहिरेयाहिरयायतं नखप्रभाधनुः पुष्पमयैः सहेषुभिः । दधानमात्मप्रियमेकका वधूः सुमायुधं मूर्त्तमिव व्यलोकयत् ॥४४॥ व्रजन् प्रियायाः पथि कश्चिदातनोद्भुजावलम्बं पटुचाटुचञ्चरः । परश्च दोर्दण्डमुदस्य तेनिवान् पटेन कान्तोपरि तापवारणम् ॥४५॥ नितम्बवक्षोरुहभारनि:सहां निजप्रतिच्छायगतां पथि प्रियाम् । प्रियो नयन् निर्भरमंसलम्बिनीममोदयत् केलिदलानिलोर्मिभिः ॥४६॥ पथि प्रयान्त्या मृगशावचक्षुषः सुखक्रमन्यासकृते प्रतिक्रमम् । वरः पुरोगस्तृणकाष्ठकर्करादिकं स्वपादाहतिभिस्तिरोदधे ॥४७॥ मृदुप्रयातध्वनिपेशलध्वनिः स्ववल्लभाखेदविनोदहेतवे । अवाग्भवत्कोकिलवल्लभाननमनुप्रविष्टः सुभगः स्म गायति ॥४८॥ सरोजवक्रां शितिशैवलालकां सहंसकां कूलदुकूलभासिताम् । सखीमिव प्रेक्ष्य पुरः सदूर्मिकां नदीमदीनोऽजनि भामिनीजनः ॥४९॥ तटासनानामथ मन्त्रिभूपतेर्नितम्बिनीनां स्फुटफेनहासया । विलोलहस्तैः सरिता विकूजितैः प्रभाषयन्त्येव पदा दधाविरे ॥५०॥ तटस्थितानां सुदृशां पयोन्तरे पुरः प्रतिच्छन्दमुदीक्ष्य कामिनः । प्रसार्य पाणी परिरिप्सवोऽत्र तत् किलाशु झम्पामभितो वितेनिरे ॥५१॥ करान् धुनाना न मान मा न मेत्युदीरयन्त्यः पृथुवेपथूदयाः । पुरः प्रविष्टैर्दयितैः पयोऽन्तराऽक्रियन्त मङ्क्षु स्वहृदीव योषितः ॥५२॥ विमुक्तसीमाश्रयमाशयं वहंस्तदङ्गरागाहितरागविभ्रमः ।
नितम्बिनीनां नवसङ्गमे नदस्तदा चकम्पे चलमीनलोचनः ॥५३॥
D:\chandan/new/bsnta / pm5\3rd proof
[ ४३
5
10
15
20
25