________________
5
10
15
20
25
[ वसन्तविलासमहाकाव्यम् ॥
४२ ]
अमूनि पुष्पाणि किलाहमाप्नुवे न हीति पाणी समुदस्य वादिनी । भुजग्रहागाधकटिः प्रिया रयादुदासि केनापि च मध्यमुष्टिना ॥ २६ ॥ लताग्रपुष्पावचिचीषया शिखावलम्बिनी कापि दिधीषया किल । तथोपगूढा दयितेन निर्दयं यथा सपत्नीहृदयं व्यदूयत ॥२७॥
अमी निकुञ्जभ्रमरा दशन्ति मा त्वरध्वमित्थं कृतकं विराविणी । करौ धुनाना मणिकङ्कणक्वणादुपांशु काचित् प्रियमाह्वयज्जनात् ॥२८॥ दृशि स्थितं पुष्परजो व्यपोहितुं समर्पितं वक्रमभूल्लताधिकम् । प्रियोऽपरस्याः कृतकक्रुधाऽनयाप्यसौ निजघ्ने जघनेन सम्मदी ||२९|| फलानि सूनेऽत्र कियन्ति गण्यतामितीरिता यावदियं तथाऽकरोत् । प्रियेण कस्याश्चन मायिनाऽपराऽभिषष्वजे तावदचुम्बि च क्षणात् ॥३०॥ विपक्षनामग्रहपूर्वमर्पयन् सुमस्रजं कोपनया कयाचन । इहास्ति सा ते रुचितेति वक्षसि स्तनेन निस्ताड्य तयैव संयतः ॥ ३१॥ किमेकमाविष्क्रियते न पल्लवैर्ममासि रे पल्लवकोऽपि दुःखदः । किमेतया क्षारकमालयाऽग्रतस्त्वयास्ति मे क्षारभरो यदाहितः ||३२| अमूभिरुद्वेगकलुम्बिभिश्च किं पुरा त्वयोद्वेगपदं कृतास्मि यत् । अशोकयाशोकमिदं तथैव ते प्रणेयमिष्टः सदृशां हि सङ्गमः ||३३|| इति ब्रुवाणा स्मितजातिकम्रया गिरा च लीलायितजातिकम्रया ।
पदं दधत्या हृदि वक्रताभुवा भ्रुवा च कान्तं निजघान काचन ||३४|| कलापकम् ॥ यथायथं ताः प्रियपाणिगुम्फितैर्वनप्रसूनैर्वनजायतेक्षणाः ।
क्षणादमोच्यन्त सुवर्णमण्डनं प्रियाकरं हि प्रियवस्तु जायते ||३५|| महीरुहाणां श्रुतिपाशपेशला जनेन दोला विहितास्ततो हिताः । मृगीदृशो यास्वधिरुह्य सुप्रभाः सुवर्णताडङ्कतुलां प्रपेदिरे ||३६|| प्रतापमुच्छेत्तुमिवोष्णदीधितेर्विलोलिदोलेन्दुमुखीमुखच्छलात् । विक्लृप्तगोपा गहनेषु वीरुधां हिमांशुघाटी गगनं व्यगाहत ||३७|| प्रियप्रसादादिव कापि कामिनी प्रणुन्नदोलागगनाग्रमासदत् । तथा विपक्षो स कटाक्षरश्मिभिर्मुहुः कृताकृष्टिरिवापपात च ॥३८॥ नभोऽधिरुह्याशु विलोलदोलया यदा यदा भूमिमियाय वाणिनी । विकीर्णपुष्पच्छलतस्तदा तदान्वियाय तल्लुब्धमिवेन्दुमण्डलम् ॥३९॥
D:\chandan/new/bsnta / pm 5 \ 3rd proof