________________
रघुवंशमहाकाव्यम्
[द्वितीयगमाः' इति । 'उन्मदस्तून्मदिष्णुः स्याद्' इति । 'शब्दे, आरवारावसंरावविरावाः' इति चामरः। ___ ता०–विसर्जितानुचरवर्गस्यापि तेजसा वरुणसदृशस्य तस्य दिलीपस्योभयपा वस्थितेषु वृक्षेषु संस्थितानामुन्मादशीलानां पक्षिणां-कूजितं वन्दिजनभाषितजय शब्द इव बभूष।
इन्दुः-पार्श्ववर्ती अनुचरवृन्द के छोड़ देने पर भी वरुण के समान 'प्रभाव शाली' उन राजा :दिलीप के आसपास के वृक्षों ने उन्मत्त पक्षियों के शब्दों द्वारा जयशब्द उच्चारण किया ऐसा मालूम पड़ता था ॥९॥
मरुत्प्रयुक्ताश्च मकत्सखामं तमच्यमारादभिवत्तमानम् । अवाकिरन् बाललताः प्रसूनैराचारलाजैरिव पौरकन्याः ॥ १० ॥ सञ्जी०-मरुत्प्रयुक्ताश्चेति । मरुत्प्रयुक्ताः वायुना प्रेरिताः, वाललताः, आरात्स मीपेऽभिवर्तमानम् 'आराद् दूरसमीपयोः' इत्यमरः। मरुतो वायोः सखा मरुल्स खोऽग्निः । स इवाभातीति मरुत्सखाभम् । 'आतश्योपसर्गे' इति कप्रत्ययः। अy पूज्यं तं दिलीपं प्रसूनैः पुष्पैः। पौरकन्याः पौराश्च ताः कन्या आचारार्था लाजास्ते राचारलाजैरिव । अवाकिरन् तस्योपरि निक्षिप्तवत्य इत्यर्थः। सखा हि सखायमा गतमुपचरतीति भावः। __ अ०-मरुत्प्रयुक्ताः, बाललताः आराद, अभिवर्तमानम्, मरुत्सखाभम्, अच्य, तं, प्रसूनैः, पौरकन्याः आचारलाजैः, इव, अवाकिरन् । वा०-मरुत्प्रयुक्ताभिर्वाललताभिरभिवर्तमानो मरुत्सखाभोऽयःस प्रसूनैः पौरकन्याभिरवाकीर्यत ।
सुधा-मरुत्प्रयुक्ताः समीरनुन्नाः, बाललताः नातिचिरोत्पन्ना लतिकाः, आरात् समीपे, अभिवर्तमानं विद्यमानम्, मरुत्सखाभम् = तेजसाऽग्निसमम् । 'अत एवं' अय॑म् = पूज्यं, तं- दिलीपम्, प्रसूनैः = कुसुमैः, पौरकन्याः पुरनिवासिनां कन्यका नार्यो वा, आचारलाजैः मङ्गलाचारार्थकभृष्टधान्यैः, राजोपरि पौरकन्यानाम् मङ्ग.. लार्थ भृष्टधान्यनिक्षेप इति लोकाचारः। इव = यथा, अवाकिरन्स्यचिक्षिपुः।।
समा० = मरुता प्रयुक्ता मरुत्प्रयुक्ताः । मरुतः सखा मरुत्सखा, मरुत्सखस्याभा इव आभा यस्य स मरुत्सखाभस्तं मरुत्सखाभम् । बालाश्च ता लता बाललताः । आचारार्था लाजा आचारलाजास्तैराचारलाजैः। पुरे भवाः पौराः, पौराणां कन्या: पौरकन्याः ।
को०-'समीरमारुतमरुज्जगत्प्राणसमीरणाः' इति । 'अथ मित्रं सखा सुहृत्' इति । 'प्रसूनं कुसुमं सुमम्' इति । 'लाजाः पुम्भूम्नि चाक्षताः' इति चामरः। ___ ता०-स्वमित्रेण वह्निना तुल्यं दीप्तिमन्तं दिलीपमागतं वीक्ष्य कोमललतासमीपे स्थितस्य तस्योपरि पुष्पवर्षणं कृतवत्यो यथा पौरकन्या मङ्गलार्थकलाजवर्षणं कुर्वन्ति ।