________________
सर्गः]
सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् | इन्दुः-वायु से प्रेरित (हिलाई गई) कोमल २ लताओं ने अग्नितुल्य (तेजस्वी), समीप में स्थित, पूज्य उन (राजा दिलीप) के ऊपर फूलों की वर्षा की, जैसे किनगरवासियों की कन्यायें मङ्गलार्थक धान के लावों की वर्षा करती थीं ॥१॥
धनुभृतोऽप्यस्य दयाऽऽर्द्रभावमाख्यातमन्तःकरणैविंशत्रैः। विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तार फल हरियः ॥ ११ ।।
सजी०-धनुर्भूत इति । धनु तोऽप्यस्य राज्ञः । एतेन अयसम्भावना दर्शिता। तथापि विशङ्कनिर्भीकैरन्तःकरणैः कर्तृभिः। दयया कृपारसेनाो भावोऽभिप्रायो यस्य तयाऽभावं तदाख्यातम् । दयाऽऽर्द्रभावमेतदित्याख्यातमित्यर्थः । 'भावः सत्तास्वभावाभिप्रायचेष्टाऽऽत्मजन्मसु' इत्यमरः। तथाविधं वपुर्विलोकयन्त्यो हरिण्योऽणां प्रकामविस्तारस्यात्यन्तविशालतायाः फलमापुः (विमलं कलुषीभवच्च चेतः कथयत्येव हितैषिणं रिपुं च) इति न्यायेन स्वान्तःकरणवृत्तिप्रामाण्यादेव विश्रब्धं ददृशुरित्यर्थः। ___ अ०-धनभृतः, अपि, अस्य, विशङ्कः, अन्तकरणैः, दयाभावम्, आख्यातं वपुः, विलोकयन्त्यः, हरिण्यः, अदणां प्रकामविस्तारफलम्, आपुः ।
वा०-विलोकयन्तीभिर्हरिणीभिरक्षणां प्रक्रामविस्तारफलमापे ।
सुधा-धनुभृतः= शरासनधारिणः, अपि =सम्भावनायाम्, अस्य =राज्ञः, दिलीपस्येति यावत् । 'तपापि' विशंकः= शंकारहितः, अन्तकरणः चितैः; दयाऽऽभावम् = कृपारसाोभिप्रायम्, एतद् वपुर्विशेषणम् । आख्यातम् प्रकर्थितं, दयाऽऽर्द्रभावमिदमिति कथितमित्यर्थः । तथाविधं वपुः= शरीरं, विलोकयन्त्या= पश्यन्स्यः, हरिण्यः = मृग्यः, अचणां = चनुषां, प्रकामविस्तारफलम् = अत्यन्तदेय: फलम्, आपुः भधिजग्मुः।। ___ समा०-धनुर्विमति धनु त् तस्य धनुर्भूतः । दयया आो दयाऽऽः, दयाऽऽो भावो यस्य तद्दयाऽऽर्द्रभावं तत्तथोक्तम् । आख्यायते स्म यत्तदाख्यातम् । अन्तरन्तःस्थानि च तानि करणानि अन्तःकरणानि तैरन्तःकरणैः। विगता शङ्का येभ्यस्तानि विशङ्कानि विशंकः। विलोकयन्तीति विलोकयन्त्यः। प्रकामं विस्तारः प्रकामविस्तारस्तस्य फलं तत्तथोकम् ।।
कोश:०-'दया कृपाऽनुकम्पा स्यादनुक्रोशोऽपि' इति । 'शंका भये संशये च' इत्यने । 'लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी । दृग्दृष्टीच' इति । 'कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् इति । 'भृगे कुरङ्गवातायुहरिणाजिनयोनय' इति चामरः ।
ता०-यद्यपि राजा दिलीपो धनुर्दधानः सन् वेषतो भयप्रद आसीद, परन्तु स्व. स्वान्तःकरणैस्तदीयं दयाभावं ज्ञात्वा, अत एव भयरहिता हरिण्यो दिलीपशरीर विस्फारितनयनाः सत्यः पश्यन्त्यः स्वस्वनयनानां विशालतायाः सफलतामधिजग्मुः।