________________
रघुवंशमहाकाव्यम् ।
[प्रथमः विश्वः । 'निधिर्ना शेवधिः' इत्यमरः । 'हवि:तव्यमानं च सर्पिष्यपि नपुंसकम्' इति मेदिनी।
ता०--सन्ध्याकालीनकृत्यसमाप्तौ, अरुन्धत्योपसेवितं वशिष्टं स्वाहादेव्योपसेवितमग्निमिव स दिलीपो ददर्श।
इन्दुः--उस 'राजा दिलीप'ने सायङ्कालीन अनुष्ठानके समाप्त होने पर अरुंधती से सेवित तपोनिधि 'वशिष्ट' को स्वाहादेवी से सेवित अग्नि की भाँति देखा ॥५६॥ सुदक्षिणादिलीपयोः सपत्नीकस्य गुरोः पादाभिवन्दनमित्याह
तयोजगृहतुः पादानराजा राज्ञी च मागधी।
तौ गुरुगुरुपत्नी च प्रीत्या प्रतिननन्दतुः ।। ५७ ॥ सञ्जी०--तयोरिति । मागधी मगधराजपुत्री राज्ञी सुदक्षिणा राजा च तयोररु न्धतीवशिष्ठयोः पादाञ्जगृहतुः । पादः पदनिश्चरणोऽस्त्रियाम्' इत्यमरः । पादग्रहणमभिवादनम् । गुरुपत्नी गुरुश्च कर्तारौ, सा च स च तौ सुदक्षिणादिलीपौ कर्म भूतौ । प्रीत्या हर्षण प्रतिननन्दतुः। आशीर्वादादिभिः संभावयाञ्चक्रतुरित्यर्थः।
अ०--मागधी, राज्ञी, राजा, च, तयोःपादान्, जगृहतुः, गुरुपत्नी, गुरू, च नौ.प्रीत्या, प्रतिननन्दतुः । वा०-मागध्या राश्या राज्ञा च तयोः पादा जगृहिरे, लणा, गुरुपत्न्या च प्रीत्या तो प्रतिननन्दाते।
सुधा--मागधी=मगधराजसुता, राज्ञी राजपत्नी, सुदक्षिणेत्यर्थः । राजा-नृपः, दिलीप इत्यर्थः। च=समुच्चयेऽर्थे, तयोः अरुन्धतीवशिष्ठयोः, पादान्-चरणान् जगृहतुः-आददतुः, सपत्नीको राजा सपत्नीकं गुरुं नमस्कृतवानिति भावः । गुरुपत्नी वसिष्ठभार्या, अरुन्धतीत्यर्थः। गुरुश्च = वशिष्ठोऽपि, 'कर्तृभूतौ' तौ-सुदक्षिणादिलीपौ 'कर्मभूतो' प्रीत्या = हर्षेण, प्रतिननन्दतुः= अभिनन्दनं चक्रतुः, आशीर्वादादिभिरिति शेषः। सपत्नीको गुरुरपि सपत्नीकाय राज्ञे, आशीर्वादान ददाविति भावः।
स०-मगधानां राजा मागधस्तस्यापत्यं स्त्री मागधी।।
को०--'गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि दुर्भरे' इति विश्वः । 'मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः' इति चामरः। ____ ताo-सुदक्षिणादिलीपौ सपत्नीकं गुरुं प्रणेमतुस्ततोऽरुन्धतीवशिष्ठावपि
तास्यामाशिषो ददतुः। ____ इन्दुः-मगध देश के राजा की लड़की रानी 'सुदक्षिणा' और राजा 'दिलीप उन दोनों 'अरुन्धती और वसिष्ठ' के चरणों को पकड़े 'प्रणाम किये तथा गुरु 'वशिष्ठ' और गुरुपत्नी 'अरुन्धती ने प्रेम से उन दोनों 'सुदक्षिणा और दिलीप को आशीर्वाद दिया॥ ५७॥