________________
सर्गः]
सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् ।। यमाः, वेदशास्त्रार्थतत्त्वावगन्तार इति यावत् । सभार्याय सपत्नीकाय, गोप्ने = पालकाय, नयचक्षुषे = नीतिशास्त्रनेत्राय, अर्हते= पूजाहा, तस्मै राज्ञे दिलीपाय, अर्हणां पूजां, चक्रुः = विदधुः।।
स०-अतिशयेन गुप्तानि गुप्ततमानि तानीन्द्रियाणि येषान्ते गुप्ततमेन्द्रियाः।
को०-'सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते' इति । 'वाचंयमो सुनिः' इति चामरः।
ता०-वशिष्ठाज्ञया सुनयो नीतिमते रक्षकाय सपत्नीकाय राज्ञे दिलीपाय पूजां विदधुः।
इन्दुः-सभ्य जितेन्द्रिय मुनियों ने, रानी के सहित, रक्षा करने वाले, नीतिशास्त्ररूपी नेत्रवाले, 'अत एवं' पूज्य उन राजा दिलीप की पूजा की ॥ ५५॥ सायङ्कालीनक्रियान्तेऽरुन्धतीसहितस्य गुरोर्दर्शनमित्याह
alth विधेः सायन्तनस्यान्त स ददर्श तपोनिधिम् । म अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् ।। ६६ ।।
सञ्जी०-विधेरिति । स राजा सायन्तनस्य सायम्भुवस्य । 'सायं चिरम्'० इत्यादिना ट्युत्प्रत्ययः। विधेजेपहोमाचनुष्ठानस्यान्तंऽवसानेऽरुन्धत्याऽन्वासितं पश्चादुपवेशनेनोपसेवितम् । कर्मणि क्तः । उपसर्गवशात्सकर्मकत्वम् 'अन्वात्यानाम्' इत्यादिवदुपपद्यते । तपोनिधिं वशिष्ठस् । स्वाहया स्वाहादेव्या । 'अथाग्नायी स्वाहा च हुतभुक्प्रिया' इत्यमरः। अन्वासितं हविर्भुजमिव ददर्श । (समित्पुष्पकुशाग्न्यम्बुमृदन्नाक्षतपाणिकः । जपं होमं च कुर्वाणो नाभिवाद्यो द्विजो भवेद् ।) इत्यनुष्ठा. नस्य मध्येऽभिवादननिषेधाद्विधेरन्ते ददशेत्युक्तम् । अन्वासनं चात्र पतिव्रताधर्मत्वेनोक्तं न तु कर्माङ्गत्वेन । विधेरन्त इति कर्मणः । समाप्त्यभिधानाद् । ___ अ०--सः, सायन्तनस्य, विधेः, अन्ते, अरुन्धत्या, अन्वासितं तपोनिधि, स्वाहया, अन्वासितं, हविर्भुजम्, इव, ददर्श। वा०-तेन सायन्तनस्य विधेरन्तेऽरुन्धत्याऽन्वासितस्तपोनिधिः स्वाहयाऽन्वासितो हविर्भुगिव ददृशे ।
सुधा-सा राजा दिलीपः, सायन्तनस्य सन्ध्याकालीनस्य, विधेः जपहोमाद्यनुष्ठानस्य, अन्ते=अवसाने, समाप्तावित्यर्थः अरुन्धत्या = अरुन्धतीनाम्न्या स्वपल्या, अन्वासितम्-उपासितम्, पश्चादुपवेशनेनेति शेषः। तपोनिधि =धर्मशेवधि, वशिष्ठमिति यावद् । स्वाहयातदाख्ययाऽग्निपरन्या, 'अन्वासितं' हविर्भुजम् = अग्निम्, इव: यथा, ददर्शविलोकयामास ।।
स०-नि निश्चयेन धीयतेऽस्मिन्निति निधिस्तपसां निधिस्तपोनिधिस्तं तपो. निधिम् ।
को०-'विधिविधाने दैवेऽपि' इत्यमरः । 'अन्तं स्वरूपे नाशेऽन्तो न स्त्री शेषे. ऽन्तिके त्रिषु' इति मेदिनी। 'तपश्चान्द्रायणादौ स्याद्धर्मे लोकान्तरेऽपि च' इति