________________
४६
रघुवंशमहाकाव्यम्
[प्रथमः न्धराः' इत्यमरः। धुर्यान् रथाश्वान्विश्रामय विनीतश्रमान्कुर्वित्यादिश्याज्ञाप्य तां पत्नी रथादवारोहयदवतारितवान्स्वयं चावततार । 'विश्रमय'इति हस्वपाठे 'जनी जव०' इति मित्त्वं 'मितां ह्रस्वः' इति सूत्रे 'वा चित्तविरागे' इत्यतो 'वा' इत्यनुवर्त्य ज्यवस्थितविभापाऽऽश्रयणास्वाभाव इति वृत्तिकारः। __ अ०-अथ, सः, यन्तारं, धुव्न् , विश्रामय, इति, आदिश्य, ताम्, पत्नी रथाद्, अवारोहयद्, च, 'स्वयम्' अवततार । वा०-अथ तेन यन्तारं 'स्वय धुर्या विश्राम्यन्ताम्' इत्यादिश्य सा पत्नी रथादवारोह्यत स्वयं चावतेरे ।
सुधा-अथ = आश्रमप्राप्त्यनन्तरं, सा-राजा दिलीपः, यन्तारं = सारथिं, धुर्या
धूर्वहान् , रथस्येति शेषः। अश्वानिति यावद् । विश्रामय = अपगताध्वश्रमान् कुरु । इति = इत्याकारकम् , आदिश्य= आदेशकृत्वा, ताम् = पूर्वोत्कार, पत्नी % सहधर्मिणी, सुदक्षिणामिति भावः, रथात्म्स्य न्दनाद्, अवारोहय अवतारितवान् च, 'स्वयम्' अवततार = अवारुरोह ।
स०-यच्छताति यन्ता तं यन्तारम् । धुरं वहन्तीति धुर्यास्तान् धुर्यान् ।
को०-'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः । सव्येष्ठदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः' इति । 'धूर्वहे धुर्यधौरेयधुरीणाः सधुरन्धराः' इति । 'याने चक्रिणि युद्धार्थ शताङ्गः स्यन्दनो रथः' इति सर्वत्राप्यमरः। ____ता०--आश्रमप्राप्तयनन्तरं स राजा दिलीपोऽश्वानां मार्गश्रमं दूरीकत्तु, सारथिमाज्ञाप्य सपत्नीको रथादवततार । ___इन्दुः-उसके बाद वह 'राजा दिलीप' सारथि को 'घोड़ों को विश्राम कराओ, यह आज्ञा देकर उस 'अपनी' स्त्री 'सुदक्षिणा' को रथसे उतारे और स्वयम् भी उतरे ॥५४॥ मुनयो दिलीपार्हणां चक्रुरित्याह
तस्में सभ्याः सभार्याय गोप्ने गुप्ततमेन्द्रियाः । ___ अहणामहते चक्रुर्मुनयो नयचक्षुषे ।। ५४ ।। सञ्जी०-सभायां साधवः सभ्याः। 'सभाया यः' इति यप्रत्ययः । गुप्ततमेन्द्रिया अत्यन्तनियमितेन्द्रिया मुनयः सभार्याय गोप्ने रक्षकाय । नयः शास्त्रमेव चतुस्तत्त्वावेदकं प्रमाणं यस्य तस्मै नयचक्षुषे । अत एवाहते । प्रशस्ताय । पूज्यायेत्यर्थः । 'अर्हः प्रशंसायाम्' इति शतृप्रत्ययः। तस्मै राज्ञेऽर्हणां पूजां चक्रुः । 'पूजा नमस्याऽपचितिः सपर्यार्चाऽहणाः समाः' इत्यमरः। ___ अ०-सभ्याः, गुप्ततमेन्द्रियाः, सुनयः सभार्याय, गोप्ने, नयचक्षुषे, अर्हते, तस्मै, अर्हणां चक्रः । वा०-सभ्यैर्गुप्ततमेन्द्रियैर्मुनिभिः सभार्याय गोप्ने नयचक्षुषेऽहते तस्मै, अहणां चक्रे।
सुधा-सभ्याः सभासदः, गुप्ततमेन्द्रियाः अतिशयरक्षितहृषीकाः, मुनयः = वाचं