________________
सर्गः]
सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् । वेष्टनानि अस्पृष्टानि अलकवेष्टनानि ययोस्तो, अस्पृष्टालकवेष्टनी।
को-'याच्जाऽभिशस्तिर्याचनार्थना' इत्यमरः। 'रेणुद्वयोः स्त्रियां धूलिः पांशुर्ना न द्वयो रजः' इत्यमरः । 'घोटके वीतितुरगतुरङ्गाश्वतुरङ्गमाः' इत्यमरः। - ता-मनोरथसिद्धिसूचकस्य वायोरनुकूलत्वात् तुरगखुरोत्था धूलयो राज्ञो दिलीपस्योष्णीषं राज्ञयाः सुदक्षिणायाश्च कुटिलकेशान् नास्पृशन् । ___ इन्दुः-मनोरथ की सिद्धि को सूचित करने वाली वायु की अनुकूलता (सम्मुख दिशा की तरफ बहने) के कारण, घोड़ा के खुरों से उठी हुई धूलि से 'सुदक्षिणा' के घुघराले बाल और 'दिलीप' के सिरपंच नहीं छुये गये 'ऐसे वे दोनों चले ॥४२॥ मार्गे कमलानां गन्धं जिघ्रतोस्तयोर्गमनमित्याह
सरसीध्वरविन्दानां वोचिविक्षोभशीतलम् । ___ आमोदमुपजिघ्रन्तौ स्वनिःश्वासानुकारिणम् ।। ४३ ।। सञ्जी०-सरसीविति । सरसीषु वीचिविक्षोभशीतलं भूमिसंघटनेन शीतलं स्वनिःश्वासमनुकतुं शीलमस्येति स्वनिःश्वासानुकारिणम् । एतेन तयोरुत्कृष्टस्त्रीपुंसजातीयत्वमुक्तम् । अरविन्दानामामोदमुपजिघ्रन्तौ घ्राणेन गृह्णन्तौ। ___ अ०-सरसोषु, वीचिविक्षोभशीतलं, स्वनिःश्वासानुकारिणम्, अरविन्दानाम्, आमोदम्, उपजिघन्तौ, 'तौ जग्मतुः । वा०-सरसीषु वीचिविक्षोभशीतलं स्वनिःश्वासानुकारिणमरविन्दानामामोदमुपजिघ्रद्यां 'ताभ्यां जग्मे'। __ सुधा-सरसीषु-सरःसु, वीचिविक्षोभशीतलं तरङ्गसङ्घनशीतं, स्वनिःश्वासानुकारिणम् आत्मनिःश्वासानुकरणशीलम्, एतेन तयोः स्त्रीपुंसयोः पद्मिनीशशजातीयत्वमुक्तम् । अरविन्दानां= कमलानाम्, आमोदम् = अतिनिहारिणं, सुगन्धिमित्यर्थः । उपजिघ्रन्तौ = नासया गृहन्तौ, 'तौ जग्मतुः।
स०-वीचीनां विक्षोभो वीचिविक्षोभः, तेन शीतलः वीचिविक्षोभशीतलस्तं वीचिविक्षोभशीतलम् । निःश्वसनं निश्वासः स्वस्य निःश्वासः स्वनिःश्वासः, अनुकतुं शीलमस्येति अनुकारी, स्वनिःश्वासस्यानुकारी स्वनिःश्वासानुकारी तं स्वनिःश्वासानुकारिणम् ।
को०-'कासारः सरसी सरः' इत्यमरः । 'भङ्गस्तरङ्ग उम्मिर्वा स्त्रियां वीचिः' इत्यमरः । 'सुषीमः शिशिरो जडः । तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गका' इत्यमरः । 'आमोदः सोऽतिनिर्हारी' इत्यमरः । 'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने' इत्यमरः। __ ता०-स्वकीयमुखवातसुगन्धेरनुकारिणं कासारतरङ्गसम्पर्कशीतलमेवंभूतं कमलसौरभ घ्राणेन गृह्णन्तौ तौ जग्मतुः। ___ इन्दुः-तालाबों में लहरों के झकोरों से शीतल, अत एव अपने 'मुखकी वायु' निःश्वास की नकल करनेवाले,कमलोंके मनोहर सुगन्धको सूंघते हुए वे दोनों चले॥३॥