________________
३८
रघुवंश महाकाव्यम् -
*यज्ञे ब्राह्मणेभ्यः प्रदत्तेषु ग्रामेषु तेषामाशीर्वादग्रहणमित्याहग्रामेष्वात्मविसृष्टेषु यूपचिह्नषु यज्वनाम् । अमोघाः प्रतिगृह्णन्ता वर्ध्यानुपदमाशिषः ॥ ४४ ॥
1
सञ्जी० – ग्रामेष्विति । आत्मविसृष्टेषु स्वदत्तेषु । यूपो नाम संस्कृतः पशुबन्धा दारुविशेषः । यूपा एव चिह्नानि येषां तेषु ग्रामेध्वमोघाः सफला यज्वनां विधिनेष्टव ताम् । ‘यज्वा तु विधिनेष्टवान्' इत्यमरः । 'सुयजोर्ध्वनिप्' इति ङ्वनिपूप्रत्ययः आशिष आशीर्वादान् । अर्वः पूजाविधिः । तदर्थं द्रव्यमर्घ्यम् | 'पादार्घाभ्यां च' इति यत्प्रत्ययः । ' षट् तु त्रिष्वर्ध्य मर्वार्थ पाद्यं पादाय वारिणि' इत्यमरः । अर्घ्यस्यानुपप मन्वक्। अर्घ्यस्वीकारानन्तरमित्यर्थः । प्रतिगृह्णन्तौ स्वीकुर्वन्तौ । पदस्य पश्चादनु पदम् । पश्चादर्थाव्ययीभावः । 'अन्दगन्वक्षमनुगेऽऽनुपदं क्लीवमव्ययम्' इत्यमरः
अ० - आत्मविसृष्टेषु, यूपचिह्नेपु, ग्रामेषु, यज्वनाम्, अमोघाः, आशिपः, अर्ध्या नुपदम्, प्रतिगृहन्तौ 'तौ जग्मतुः ' । वा - आत्मविसृष्टेषु यूपचिह्नेषु यज्वना ममोघा आशिषोऽर्ध्यानुपदं प्रतिगृहद्भयां जग्मे ।
[ प्रथमः
सुधा - आत्मविसृष्टेषु = स्वदत्तषु, यूपचिह्नेषु = यज्ञसम्बन्धिपशुबन्धार्थकसंस्कृत दारुविशेषलक्षणेषु, ग्रामेषु = संवसथेषु, यज्वनां = विधिनेष्टावतां याज्ञिकानामित्यर्थः आशिपः = आशीर्वादान्, अर्ध्यानुपदम् = अर्ध्या व्यवहितोत्तरम्, प्रतिगृहन्तौ स्वी कुर्वन्तौ तौ जग्मतुः ।
स०-- अततीत्यात्मा तेन विसृष्टा आत्मविसृष्टास्तेषु आत्मविसृष्टेषु ।
को० -- 'समौ संवसथग्रामौ' इति । 'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽ स्त्रियां धने' इति चामरः । 'कलङ्काङ्कौ लान्छनञ्च चिह्नं लच्म च लक्षणम्' इत्यमरः । 'मोघं निरर्थकम्' इत्यमरः । देवद्विजननृपादिनां पूजाऽर्थान्युपकरणानि - 'आपः क्षीरं कुशाग्राणि दधि सर्पिश्च तण्डुलाः । यवः सिद्धार्थकश्चैव ह्यष्टाङ्गाः प्रकीर्तितः ॥
ता०- - पथि प्रयान्तौ सुदक्षिणा दिलीपौ विधिनेष्टवद्भयो विप्रेभ्यो विसृष्टेषु यूपलक्षणेषु ग्रामेषु तत्रत्यानां तेषामाशीर्वादानर्घ्य स्वीकारानन्तरं प्रतिगृह्णन्तौ जग्मतुः ।
इन्दुः- स्वयं 'दान में' दिये हुए यज्ञके स्तम्भों से चिह्नित ग्रामों में विधिपूर्वक यज्ञ करनेवाले ब्राह्मणों के अव्यर्थ 'कभी निष्फल न जाने वाले' आशीर्वादों को अर्ध्य स्वीकार करने के अनन्तर ग्रहण करते हुए वे दोनों चले ' ॥ ४४ ॥
*मार्गे वन्यवृक्षाणां नामानि पृच्छतोस्तयोर्गमनमित्याह - हैयङ्गवीन मादाय घोषवृद्धानुपस्थितान् ।
नामधेयानि पृच्छन्तौ बन्यानां मार्गशाखिनाम् ॥ ४४ ॥
सञ्जी० - हैयङ्गवीनमिति । ह्यस्तनगो दोहोद्भवं घृतं हैयङ्गवीनम् । 'तत्तु हैयङ्गवीनं स्याद् ह्योगोदोहोद्भवं घृतम्' इत्यमरः । 'हैयङ्गवीनं संज्ञायाम्' इति निपातः । तत्सद्यो धृतमादायोपस्थितान्घोपवृद्धान् । 'घोष आभीरपल्ली स्याद्' इत्यमरः । वन्यानां