________________
३६
रघुवंशमहाकाव्यम्
[प्रथमः स्त्रजम् वहिरिमालां, वितन्वद्भिः विरचयद्भिः, इवेति शेषः। उत्प्रेक्षाबोधकेर शब्दप्रयोगाभावऽपि गम्योत्प्रेक्षाऽत्र ज्ञेया । कलनिर्बादै मधुरास्फुटध्वनिमि सारसैः पक्षिविशेषः, 'करणैः' क्वचित् कस्मिंश्चित् , स्थल इति शेषः । उन्नमितान नौ ऊर्ध्वमुखी, 'तो जग्मतुः। ___स-तोरणस्य स्त्रक् तोरणस्रक् तां तोरणस्त्रजम् । कलो निर्हादः येषान्ते कल निर्वादास्तैः कलनिर्हादैः । उन्नसिते आनने ययोस्तो, उन्नमिताननौ ।
को०--'वीथ्यालिरावलिः, पङ्क्तिश्रेणीलेखास्तु राजयः' इत्यमरः । 'ध्वनौ मधुरास्फुटे । कलः' इत्यमर । 'स्वाननि?पनि दनादनिस्वाननिस्वनाः' इत्यमरः 'वक्त्रास्ये वदनं तुण्डमाननं लपनं सुखम्' इत्यमरः।
ता०-पङ्क्तिबन्धनं कृत्वाऽऽकाशे मधुराव्यक्तभाषिणः सारसान् स्तम्भरहिता बहिरिमाल्यसदृशान् क्वचिदूर्ध्वमुखौ पश्यन्तौ तौ जग्मतुः। __इन्दुः-पडित बाँधने से (पङ्क्ति बाँध कर चलने से) विना खम्भे के बन्दनवा (की तरह शोभा) को करते हुए, स्पष्ट मधुर शब्द वाले सारस पक्षियों कारण वे कभी कभी ऊपर की ओर मुख किये हुए (वे दोनों चले)॥४१॥ गच्छतोस्तयोः पथ्यनुकूलवायुवहनमित्याह
पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिनः ।
रजोभिस्तुरगोत्कीर्णैरस्पृष्टालकवेष्टनौ ॥४२॥ सञ्जी०-पवनस्येति । प्रार्थनासिद्धिशंसिनोऽनुकूलत्वादेव मनोरथसिद्धिसूच कस्य पवनस्यानुकूलत्वाद् गन्तव्यदिगभिमुखत्वात् । तुरगोत्कीर्णं रजोभिरस्पृष्ट अलका देव्याः वेष्टनमुप्णीषं च राज्ञो ययोस्तौ तथोक्तौ । 'शिरसा वेष्टनशोभिन सतः' इति वक्ष्यति।
स-प्रार्थनासिद्धिशंसिनः, पवनस्य, अनुकूलत्वात्, तुरगोत्कीर्णैः, रजोभि. अस्पृष्टालकवेष्टनौ' 'तौ जग्मतुः । वा०-प्रार्थनासिद्धिशंसिनः पवनस्यानुकूलत्वार तुरगोत्कीर्णे रजोभिरस्पृष्टालकवेष्टनाभ्यां ताभ्यां जग्मे । _ सुधा-प्रार्थनासिद्धिशंसिन = याच्यापूर्तिविज्ञापकस्य, मनोरथसिद्धिसूचक स्येति भावः। पवनस्य वातस्य, अनुकूलत्वाद् = गन्तव्यदिगभिमुखत्वाद्, शकुन शास्त्रेऽभिसुखपवनस्य कार्यसिद्धिकरत्वमुक्तम् । तुरगोत्कीर्णैः =अश्वोत्क्षिप्तैः, अश्व खुरोत्क्षिप्तैरित्यर्थः । रजोभिः=धूलिमिः, अस्पृष्टालकवेष्टनौ = असम्पृक्तचूर्णकुन्तलो ष्णीषौ, 'शिरसा वेष्टनशोभिना सुत' इति वचयमाणप्रयोगवशाद्वेष्टनपदेन शिरो वेष्टनं गृह्यते । 'तौ दम्पती जग्मतुः ।। ___ स०-प्रार्थनायाः सिद्धिः प्रार्थनासिद्धिः तां शंसितुं शीलमस्येति प्रार्थनासिद्धि शंसी तस्य प्रार्थनासिद्धिशंशिनः। तुतोर्तीतितुरः तुरो गच्छन्तीति तुरगाः तैरुत्कीर्णानि तुरगोत्कीर्णानि तैस्तुरगोत्कीर्णैः। न स्पृष्टानि अस्पृष्टानि अलकाश्च वेष्टनञ्चेति अलक