________________
सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् ।।
सुधा०-तथा-तेन प्रकारेण, यथा भवान् ब्रवीति तथैव करिष्यामीति भावः। इति= इति, स्वरूपां, गां=गिरम्, उक्तवते कथितवते, हरये-सिंहाय, सद्यः तत्क्षणे, प्रतिष्टम्भविमुक्तवाहुः स्तम्भनत्यक्तभुजः, सःदिलीपः, न्यस्तशस्त्रः परित्यक्षायुधः, सन्निति शेषः । स्वदेहम् = आत्मशरीरम्, आमिषस्य = पललस्य, मालस्य, पिण्डं = कवलम्, इव% यथा, उपानयत्-उपाहरत् ।
समा०-प्रतिष्टम्भाद्विमुक्तः, प्रतिष्टम्भविमुक्तः, स वाहुर्यस्य स तथोक्तः । न्यस्तं शस्त्रं येन स तथोकः । स्वस्य देहः स्वदेहस्तं स्वदेहम् । ___ को०-'गौरुदके दृशि । स्वर्गे दिशि पशौ रश्मौ बजे भूमाविषौ गिरि' इत्यनेकार्थसंग्रहः । 'पिशितं तरसं मांसं पललं क्रव्यमामिपम्' इत्यमरः।
ता०-यथा भवान् ब्रवीति तथैव भवस्विति कथयित्वा प्रार्थनामङ्गीकुर्वते सिंहाय दिलीपः परित्यक्तायुधः सन् निजदेहं मांसग्रासमिव कृत्वा समर्पितवान् । ___इन्दुः०--'वैसा ही हो' इस वचन को कहते हुए सिंह के लिए उसी क्षण में वन्धन से खुली बाहु वाले उन राजा दिलीप ने शस्त्र के त्यागने वाले होते हुए अपने शरीर को मांस के पिण्ड (ग्रास) के समान समर्पण कर दिया ॥ ५९॥
तस्मिन् क्षणे पालयितुः प्रजानामुत्पश्यतः सिंहनिपातमुग्रम् । अवा मुखस्योपरि पुष्पवृष्टिः पपान विद्याधरहस्तमुक्ता ।। ६०॥ सजी०-तस्मिन्निति । तस्मिन्क्षणे उग्रं सिंहनिपातमुत्पश्यत उत्प्रेक्षमाणस्य तर्कयतोऽवाङ्मुखस्याधोमुखस्य 'स्यादवाङप्यधोमुखः इत्यमरः'। प्रजानां पालयितू राज्ञः उपर्युपरिष्टात 'उपर्युपरिष्टात्' इति निपातः। विद्याधराणां देवयोनिविशेषाणां हस्तैर्मुका पुष्पवृष्टिः पपात ।
अ०-तस्मिन् क्षणे, उग्र', सिंहनिपातम्, उत्पश्यतः, अवाङ्मुखस्य, प्रजानां पालयितुः, उपरि, विद्याधरहस्तमुक्ता, पुष्पवृष्टिः, पपात ।
वा०-विद्याधरहस्तमुनया पुष्पवृष्टया पेते।
सुधा-तस्मिन् पूर्वोक्त, क्षणे-मुहूर्ते, सिंहाय स्वशरीरार्पणसमये । उग्रम्-उत्कटं सिंहनिपातम् = मृगेन्द्रनिपतनम् , उत्पश्यतः-वितर्कयतः, भवाङमुखस्य-अधोमुखस्य, प्रजानां जनानां, पालयितुः-रक्षितुः दिलीपस्य । उपरि-उपरिष्टाद्, विद्याधरहस्तमुक्ता विद्याधरदेवयोनिविशेषकरविसृष्टा, पुष्पवृष्टिः कुसुमवर्षणं, पपात अपतत् । ___समा०--सिंहस्य निपातःसिंहनिपातस्तथोक्तन् । अवाङमुखं यस्य लोऽवाङमु. खस्तस्यावामुखस्य । पुष्पाणां वृष्टिः पुष्पवृष्टिः । विद्यावा गुटिकाऽञ्जनादिविषयिण्या धरा धारका इति विद्याधरास्तेषां हस्ता विद्याधरहस्तास्तैर्मका विद्याधरहस्तमुक्ता । ___ को०-'क्षणं व्यापारशून्यत्वमुहूर्तोत्सवपर्वसु' इति रुद्रः। 'उग्रः क्षत्रियतः शूदासूनावुरकटरुद्रयोः' इत्यनेकार्थसंग्रहः ।
त०-तस्मिन् मुहूर्ते रौद्रं सिंहपतनं मनसि विचारयतोऽधोमुखस्य दिलीपस्यो