________________
रघुवंश महाकाव्यम् -
[ द्वितीयः
तमाहुः | 'स्यादाभाषणमालापः' इत्यमरः । स ताडक्सम्बन्धो वनान्ते सङ्गतयोनी वावयोर्वृत्तो जातः । तत्ततो हेतोर्हे भूतनाथानुग ! शिवानुचर! एतेन तस्य महत्व सूचयति । अत एव सम्बन्धिनो मित्रस्य से प्रणयं याच्ञाम् । 'प्रणयास्त्वमी । विश्रम्भयाच्चाप्रेमाणः' इत्यमरः । विहन्तुं नार्हसि ।
૦
अ० – सम्बन्धम्, आभाषणपूर्वम्, आहुः, सः वनान्ते, सङ्गतयोः, नौ, वृत्तः, तद्, भूतनाथनुग !, त्वं सम्बन्धिनः, मे, प्रणयं, विहन्तुं न अर्हसि । वा० - सम्वन्ध आभाषणपूर्व उच्यते 'विद्वद्भिः' तेन वृत्तेन 'अभूयत' स्वया प्रणयो नार्ह्यते ।
सुधा – सम्बन्धं = मित्रत्वम्, आभाषगपूर्वम् = आलाप प्रथमम् आहुः = ब्रुवन्ति 'विद्वांसः' इति शेषः । स आलापजन्यः सम्बन्धः, वनान्ते = काननप्रान्ते, सङ्ग तयोः = मिलितयः, नौ = आवयोः, वृत्तः = भूतः, तद् = तस्मात् कारणात्, भूत नाथानुग ! = महेश्वरानुचर! हे सिंह ! त्वम् ' अत एव' सम्बधिनः = मित्रतारूप सम्बन्धवतः, मे = मम, दिलीपस्य । प्रणयं = याच्ञां विहन्तुं, = नाशयितुं, न = नहि, अर्हसि = योग्योऽसि ।
समा० - आभाषणं पूर्वं यस्य स आभाषणपूर्वस्तमाभाषाणपूर्वम् । वनस्यान्तं वनान्तस्तस्मिन् वनान्तेः। भूतानां नाथो भूतनाथः, अनु पश्चाद् गच्छतीत्यनुगः भूतनाथस्यानुगो भूतनाथानुगस्तत्सम्बुद्धौ हे भूतनाथनुग ! | सम्बन्धोऽस्त्यस्येतिं सम्बन्धी तस्य सम्बन्धिनः । को० - पूर्वन्तु पूर्वजे । प्रागग्रे श्रुतिभेदे चे 'त्यने० 'अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः' इति हैमः ।
ता० - यत् परस्परालापजन्यं सख्यं भवति, तदावयोर्वनमध्ये मिलितयोर्जात मत एव हि शिवानुचर सिंह ! मित्रस्य मे प्रार्थनां विफलीकत्तुं त्वं योग्यो नासि
इन्दुः० – सम्बन्ध (मैत्री) को जो बातचीत से उत्पन्न हुआ लोग कहते हैं, वह वन के बीच में मिले हुए हम दोनों का हो चुका है, इस कारण से है शिवजी के अनुचर सिंह ! तुम सम्बन्धी 'हाकर मुझ दिलीप की प्रार्थना को विफल करने के लिये योग्य नहीं हो ॥ ५८ ॥
तथेति गामुक्तत्रते दिलीपः सद्यः प्रतिप्रम्भविमुक्तबाहुः ।
स न्यस्तशस्त्रो हरये स्वदेहमुपानयत्पिण्डमिवामिषस्य ॥ ५६ ॥ सञ्जी०–तथेतीति । तथेति गामुक्तवते हरये सिंहाय | 'कपो सिंहे सुवर्णे च बर्णे विष्णौ हरिं विदुः' इति शाश्वतः । सद्यस्तत्क्षणे प्रतिष्टम्भात् प्रतिबन्धाद्विसुको वाहु यस्य स दिलीपः । न्यस्तशस्त्रस्त्यक्तायुधः सन् स्वदेहम् | आमिषस्य मांसस्य । 'पल्लं क्रव्यसामिषम्' इत्यमरः । पिण्डं कवलमिव । उपानयत्समर्पितवान् । एतेन निर्ममत्वमुक्तम् ।
अ० – तथा, इति, गाम्, उक्तवते, हरये, सद्यः, प्रतिष्टम्भषिमुक्तबाहुः, सः न्यस्तशखः, 'सन्' स्वदेहम्, आमिषस्य, पिण्डम्, इव, उपानयत् ।
वा० - प्रतिष्टम्भविमुक्तबाहुना तेन न्यस्तशस्त्रेण स्वदेहः पिण्ड इवोपानीयत ।