________________
किरातार्जुनीयम् __घण्टापथ-महीभृतामिति । अशेषितक्रियः समापितकृत्यः । आफलोदय कर्मेत्यर्थः । स दुर्योधनः । सच्चरितैः शुद्धचरितैः अवञ्चकैरित्यर्थः । चरन्तीति चरास्तैः चरैः प्रणिधिभिः । पचाद्यच् । महीभृतां क्रियाः प्रारम्भान्निःशेषं वेद वेत्ति । 'विदो लटो वा' इति णलादेशः । स्वरहस्यं तु न कश्चिद्वेदेत्याहमहोदयैरिति । धातुरिव तस्य दुर्योधनस्येहितं उद्योगो महोदयमहावृद्धिभिः । हितमनुबघ्नन्त्यनुरुन्धन्तीति हितानुबन्धिभिः स्वन्तैरित्यर्थः । फले कार्यसिद्धिभिः प्रतीयते ज्ञायते । फलानुमेयास्तस्य प्रारम्भा इत्यर्थः ।।२०।। न तेन सज्यं क्वचिदुद्यतं धनुः कृतं न वा कोपविजिह्ममाननम् । गुणानुरागेण शिरोभिरुह्यते नराधिपैर्माल्यमिवास्य शासनम् ॥२१॥ ___ अ०-तेन क्वचित् सज्यं धनुः न उद्यतम् आननं वा कोपविजिह्म न कृतम् । नराधिपैः अस्य शासनं गुणानुरागेण माल्यम् इव शिरोभिः उह्यते।
श०-तेन-उस ( दुर्योधन) के द्वारा । क्वचित्-कहीं भी। सज्यं-चढ़ी हुई (चढ़ाई हुई ) प्रत्यञ्चा (डोरी, ज्या) वाले, प्रत्यञ्चा से युक्त। धनुः = धनुष । न = नहीं। उद्यतम् = उठाया गया, ऊपर किया गया, प्रयुक्त किया गया । वा = अथवा । आननं = मुख । क्रोधविजिह्यं = क्रोधवश (क्रोध से, क्रोध के कारण) कुटिल (टेढ़ा, वक्र, विकृत)। न कृतम् = नहीं किया गया । नराधिपः = ( कर देने वाले अधीनस्थ ) राजाओं के द्वारा, सामन्तों के द्वारा । अस्य = इस ( दुर्योधन ) का | शासनं = आज्ञा, आदेश । गुणानुरागेण = (दया, दाक्षिण्य आदि ) गुणों के अनुराग से, गुणों के वशीभूत होकर, गुणों में अनुरक्त होने के कारण, गुणों से आकृष्ट होने के कारण [ माला के पक्ष मेंसूत्र में गुँथे (गुम्फित ) होने के कारण अथवा सुगन्ध, मनोहरता आदि गुणों के कारण ] | माल्यम् इव = पुष्प-माला की तरह । शिरोभिः = शिरों से, नतमस्तक होकर अर्थात् सम्मान के साथ । उह्यते = धारण की जाती है, स्वीकार की जाती है।
अनु-उस ( दुर्योधन) के द्वारा प्रत्यञ्चा से युक्त (चढ़ी हुई प्रत्यञ्चा बाला) धनुष कहीं भी (किसी के ऊपर भी) नहीं उठाया गया (नहीं प्रयुक्त