________________
कथामुखे-शाल्मलीतरुवर्णनम् यत्र च विकच-कुवलय-प्रभा-श्यामायमान-पक्षपुटान्यद्यापि मूत्तिमद्रामशापग्रस्तानीव मध्यचारिणामालोक्यन्ते चक्रवाकनाम्नां पक्षिणां मिथ
तस्यैवंविधस्य सरसः पश्चिमे तीरे राघव-शर-प्रहार-जर्जरित-बालतरु-षण्डस्य च समाप दिग्गज-करदण्डानुकारिणा जरदजगरेण सततमावेष्टितमूलतया बद्धमहालवाल इव
वर्णा इति भावः ) जलघरपक्षेऽयं विग्रहः । वनकरिपक्षे तु-बहलपतः (प्रचुरकर्दमः) मलिन: ( कृष्णवर्णः )। तादृशः वनकरिभिः = अरण्यहस्तिभिः । अनवरतं = निरन्तरम् । आपोयमानसलिलम् = ( आमन्तात् ) पीयमानं (पानकर्मीक्रियमाणम् ) सलिलं ( जलम् ) यस्मिस्तत् । उत्प्रेक्षाऽलङ्कारः ।
अगाधम् = तलस्पर्शरहितम्, अनन्तम् = अन्तरहितम्, अपरिमितमिति मावः । अप्रतिमम् = अविद्यमाना प्रतिमा ( उपमा ) यस्य तत्, अनुपममिति भाव: । "नजोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोप" इति नबहवोहिः । अपां=जलस्य, निधानं =निधिरूपम् । "आप: स्त्री भम्नि वारि सलिलं कमलं जलम् ।" इत्यमरः । पम्पाऽभिधानं पम्पा अमिषानं (नामधेयम् ) यस्य तत् । तादृशं पद्मसरः = पाप्रचुर सरः, "शाकपार्थिवादीनां सिद्धय उत्तरपदलोपस्योपसंख्यानम्" इति मध्यमपदलोपी समासः । पद्मपरिपूर्णः कासार इति भावः ।।
यत्र चेति । यत्र = पम्पासरसि । मध्यचारिणाम् = अम्यन्सरचरणशीलानां, चक्रवाकनाम्नां = रथाङ्गनामकानां, पक्षिणां = पतङ्गाना, विकचेत्यादिः = विकचानि (विकसितानि) यानि कुवलयानि (नीलकमलानि ) तेषां प्रभा (कान्तिः ) तया श्यामायमानानि (श्यामवदाचरन्ति ) पक्षपुटानि (पत्त्रपुटानि ) येषां तानि, मिथुनानि-द्वन्द्वानि, अद्य अपि - एतत्कालपर्यन्तम् अपि, मूर्तिमद्रामशापप्रस्तानि = मूर्तिमान् ( शरीरधारी ) यो रामशाप: ( राघवशपनम् ), तेन प्रस्तानि (गृहीतानि ), इव आलोक्यन्ते = दृश्यन्ते । अत्रोत्प्रक्षाऽलङ्कारः ।
रावणेनाऽपहृतां जनकतनयामुद्दिश्य पम्पासरसि साऽतिशयं विलपन्तं राममालोक्य चक्रवाकाः उपाहसन्, ततो "यूयमपि प्रतिनिशं वियोगदुःखमाजो भवते'"ति "रामः शशापे"ति किंवदन्तीमनुसृत्य एषोक्तिः । अत्र कुवलयप्रमया श्यामायमानानां चक्रवाकानां मूत्तिमच्छापग्रस्तत्वेनोत्प्रेक्षा ।
तस्येति । तस्य = पूर्वोक्तस्य, एवंविधस्य = एतादृशस्य, पूर्ववणितस्येति भावः । सरसः = कासारस्य, पम्पासरस इति भावः । पश्चिमे = पश्चिमदिग्वतिनि, तीरे= तटे ।
राघवेत्यादिः = राघवस्य ( रामस्य ) ये शराः ( बाणाः ) तेषां प्रहारः ( उपघातः ) तेन जर्जरितः ( विदारितः ) बालानां (होवेराणां वृक्षविशेषाणाम् ) तरूणाम् ( अन्येषां सामान्यवृक्षाणाम् ) यः खण्डः ( समूहः ), तस्य समीपे = निकटे, दिग्गजकरदण्डाऽनुकारिणा= दिक् स्थितः गजः दिग्गजः, ( मध्यम० समासः ) ( ऐरावतादिः ), दिग्गजा यथा-"ऐरावतः पुण्डरीको वामनः कुमुदोऽ
जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥" इत्यमरः । दिग्गजस्य (ऐरावतादेः) यः करदण्डः ( शुण्डादण्डः ) तम् अनुकरोति ( अनुहरति ) इति तच्छीलः, तेन, दिग्गजशुण्डादण्डसदृशेन, दीर्घेणेति भावः । तादृशेन, जरदजगरेण = जरंश्चाऽसौ अजगरस्तेन, जीणंवाहसेनेत्यर्थः । “अजगरे शयुर्वाहस इत्युमौ" इत्यमरः । उपमाऽलङ्कारः । सततं = निरन्तरम्, आवेष्टितमूलतया = आवेष्टितं ( परिवृतम् ) मूलम् ( अधोभागः ) यस्य सः, तस्य मावस्तत्ता, तया। परिवृताऽधोभागत्वेनेत्यर्थः ।
जलाश्रय पम्पानामक कमलोंका तालाब है। जहाँपर विकसित नीलकमलोंकी कान्तिसे श्यामवर्णवाले पक्षोंसे युक्त इसलिए आज भी मूर्तिमान् रामशापसे ग्रस्त-सी बीचमें विचरण करनेवाली चक्रवाकोंकी जोड़ियाँ देखी जाती हैं।
वैसे पम्पासरोवरके पश्चिमके किनारेपर रामके बाणोंके प्रहारसे विदारित हीबेर और अन्य वृक्षोंके समीपमें दिग्गजके सूंडका अनुकरण (नकल ) करनेवाले जीर्ण अजगरसे निरन्तर वेष्टित जड़ होनेसे महान आलवाल (क्यारो)