________________
७२
कादम्बरो तुङ्ग-स्कन्धावलम्बिभिरनिलवेल्लितैरहिनिर्मोकैधृतोत्तरीय इव, दिक्चक्रवाल-परिमाणमिव गृह्णता भुवनान्तरालविप्रकीर्णेन शाखासंचयेन प्रलयकाल-ताण्डव-प्रसारित-भुजसहस्रमुडुपतिशेखरमिव विडम्बयितुमुद्यतः, पुराणतया पतनभयादिव वायुस्कन्ध-लग्नः निखिलशरीरव्यापिनीभिरतिदूरोन्नताभिर्जीर्णतया शिराभिरिव परिगतो व्रततिभिः, जरा-तिलकबिन्दुभिरिव कण्टकैराचिततनुः इतस्ततः परिपीतसागरसलिलैगगनागतैः, पत्त्ररथैरिव शाखान्तरेषु निलीयमानः बद्धमहाऽऽलवालं = बद्धं (विहितम् ) महत् ( दीर्घम् ) आलवालम् ( आवापः ) यस्य सः, इव "शाल्मलीवृक्ष" इत्यस्य विशेषणम्, एवं परत्राऽपि, उत्प्रेक्षालङ्कारः । उपमोत्प्रेक्षयोरङ्गाङ्गिभावेन माङ्कराऽलङ्कारः । तुङ्गस्कन्धाऽवलम्बिभिः तुङ्गः ( उन्नतः ) यः स्कन्धः ( प्रकाण्ड: ) तम् अवलम्बन्ते तच्छोलास्तैः । उन्नतप्रकाण्डाऽवलम्बनशीलरित्यर्थः । तादृशः अनिलवेल्लितः = वायसञ्चलितः, अहितिर्मोकैः = सर्पकञ्चुकैः, धृतोत्तरीयः = धृतम् ( परिहितम् ) उत्तरीयम् ( संत्र्यानम्, ऊर्ववस्त्रमिति नाव: ), येन सः, उत्प्रेक्षाऽलङ्कारः । "संव्यानमुत्तरीयं चे"त्यमरः। दिगिति। दिकचक्रवालपरिमाणं = दिशां ( ककुभाम् ) यत् चक्रवालं (मण्डलम् ) तस्य परिमाणं (परिमितिम् ), गृह्णता= ग्रहणं कुर्वता, इव । भुवनाऽन्तरालविप्रकीर्णेन = भुवनानाम् ( लोकानाम् ) यत् अन्तरालम् ( अभ्यन्तरभागः ), तस्मिन् विप्रकीर्णेन ( इतस्ततः पर्यस्तेन ), शाखासञ्चयेन = लतासमूहेन, “समे शाखालते" इत्यमरः । प्रलयेत्यादिः = प्रलयकाले ( सहारसमये ) यत् ताण्डवं ( नृत्यविशेषः ), तस्मिन् प्रसारितं ( विस्तारितम् ) भुजसहस्रं (बाहुसहस्रम् ) येन, तं तथाविधम् उडुपतिशेखरम् = उडूनां ( नक्षत्राणाम् ) पतिः ( स्वामी चन्द्र इत्यर्थः । स शेखरः शिरोभूषणम् ) यस्य, तं, महादेवमिति भावः, । विडम्बयितुम् = अनुकर्तुम्, अत्रोपमाऽलङ्कारः उद्यतः = कृतोद्योगः, इव, उत्प्रेक्षाऽलङ्कारः । द्वयोरलङ्कारयोरङ्गाङ्गिमावेन सङ्करः ।
पुराणतयेति । पुराणतया =प्राचीनत्वेन, जीर्णत्वेनेति भावः । पतनभयात् = स्खलनमीते:, इव, वायुस्कन्धलग्नः = वायुपदस्य वायुसंचलानाऽवकाशे आकाशे लक्षणा, ततश्च वायोः स्कन्धे ( अंसे ) लग्नः ( सम्बद्धः ), वायुः ( वातः ) स्कन्धलग्नः, यस्य, स इव । पतनभयात् वायर्यस्य शाल्मलीतरोरुन्नते प्रकाण्डे लग्न इव प्रतीयत इति भावः उत्प्रेक्षाऽलङ्कारः ।
निखिलेति। निखिलशरीरव्यापिनीभिः = निखिलं ( समस्तम् ) यत् शरीरं ( देहः ) तद् व्याप्नुवन्तीति तच्छीलाः, ताभिः । अतिदूरोन्नताभिः = अतिदूरम् ( अतिविप्रकृष्टम् ) उन्नताभिः ( उच्चाभिः)। जीर्णतया = पुराणतया, वार्धक्येनेति भावः । शिराभिः = नाडीभिः, इव "नाडी तु धमनिः शिरा" इत्यमरः । व्रततिमिः= लताभिः, परिगतः = परिवेष्टितः । उत्प्रेक्षाऽलङ्कारः ।
जरेति । जरातिलकबिन्दुभिः = जरायां ( वार्धक्ये ) ये तिलकबिन्दवः ( तिलकालकाः ), तैरिव । कण्टक:= द्रुमतीक्ष्णाऽङ्गः, आचिततनुः = आचिता (व्याप्ता) तनु: (शरीरम् ) यस्य सः । उत्प्रेक्षाऽलङ्कारः।
इतस्तत इति । इतस्ततः = यत्र तत्र । परिपीतसागरजल:=परिपीतं (पानविषयीकृतम् ) सागरस्य ( समुद्रस्य ) जलं ( सलिलम् ) यस्तः, गगनाऽऽगतः= गगनार ( आकाशतलात् ) आगतैः से युक्त सा, ऊँचे प्रकाण्डोंमें लटकनेवाले वायुसे कम्पित, साँपकी केचुलियोंसे मानो उत्तरीय धारण किया हुआ है, जो मानों दिशाओंके परिमाणको ग्रहण करता हुआ भुवनोंके भीतर बिखरे हुए शाखासमुदायसे प्रलय समयके ताण्डव नृत्यमें हजारों हाथोंको फैलाये हुए चन्द्रशेखर ( महादेव ) का अनुकरण करनेके लिए तत्पर है, जिसने प्राचीन होनेसे मानों गिरनेके भयसे अपने कन्धों का आकाशमें सहारा लिया है। जो संपूर्ण शरीरको व्याप्त करनेवाली और अधिक दूर तक ऊँची लताओंसे मानों वृद्धताके कारण ऊँची नाडियों (नसों) से व्याप्त है, जो काँटोंसे मानों बुढापेसे तिलकों ( मस्सों) से व्याप्त शरीरवाला है, इधर उधरसे समुद्र जलको पीये हुए और आकाशमें आये हुए