________________
७०
कादम्बरी
प्रतिदिनमृष्यमूकवासिना सुग्रीवेणावलुप्त-फल-लघु-लताभिः, उदवासितापसानां देवतार्चनोपयुक्त-कुसुमाभिरुत्पतज्जलचर-पक्षपुट-विगलित-जलबिन्दुसेकसुकुमार-किसलयाभिः लतामण्डपतल-शिखण्डि-मण्डलारब्ध-ताण्डवाभिः अनेककुसुम-परिमलवाहिनीभिर्वनदेवताभिः स्वश्वासवासिताभिरिव वनराजिभिरुपरुद्धतीरम्, अपरसागरशङ्किभिः सलिलमादातुमवतीर्णं लधरैरिव पहल-पङ्क-मलिनैर्वनकरिभिरनवरतापीयमानसलिलम्, अगाधमनन्तमप्रतिमम् अपां निधानं पम्पाभिधानं पद्मसरः।
ध्यजनम् ) । अविरलेत्यादिः = अविरला (निरन्तरा ) या तमालवीथी (तापिच्छपङक्तिः), तया अन्धकारिताभिः ( तिमिरितामिः, अप्रकाशिताभिरिति भावः ) "वनराजिभिः" इत्यस्य विशेषणम । एवं परत्राऽपि । निर्वासितेन=स्थानानिष्कासितेन, प्रतिदिनं प्रत्यहं, सञ्चरता=गच्छता, ऋष्यमूकनिवासिना=ऋष्यमूकपर्वतनिवसनशीलेन सुग्रीवेण% वाल्यनुजेन, अवलुप्तफललघुलताभिः = अवलुप्तानि ( दूरीकृतानि ) फलानि ( सस्यानि ) याभ्यस्ता, अतः लघ्व्य: (लाघवयुताः फलमाररहिता इति मावः ) लता (व्रततयः ) यासु, ताभिः ।
उदवासितापसानाम् = उदके ( जले ) वासः, 'पेषंवासवाहनधिषु चेति सूत्रेण उदकस्योदादेशः । उदवासोऽस्ति येषां ते उदवासिनः, "अत इनिठनौ" इतीनिः । उदवासिनश्च ते तापसाः तेषाम्, (क० धा० )। जलनिवासितपस्विनाम् । देवताऽर्चनोपयुक्तकुसुमाभिः = देवा एव देवताः, "देवातल्" इति स्वाऽर्थे ( प्रकृत्यर्थे ) तल्प्रत्ययः । देवतानाम् ( देवानाम् ) अर्चने ( पूजने ) उपयुक्तानि ( सोपयोगानि ) कुसुमानि ( पुष्पाणि ) यासु, ताभिः ।
उत्पतदिति । उत्पतन्त: ( उड्डीयमानाः ) ये जलचराः ( सलिलचराः ) पतङ्गाः ( पक्षिणः, हंसाद्याः ) तेषां पक्षपुटेभ्यः ( पतत्रपुटेभ्यः ) विगलिताः ( प्रताः) ये जलबिन्दवः ( सलिलपृषताः ), तेषां सेकेन ( सेचनेन ) सुकुमाराणि ( कोमलानि ) किसलयानि ( पल्लवानि ) यासां, ताभिः ।
लतेत्यादिः = लतानां ( वल्लीनाम् ) ये मण्डपाः ( आच्छादितप्रदेशाः ) तेषां तलेषु ( अध:प्रदेशेषु ) यत् शिखण्डिमण्डलं ( मयूरसमूहः ), तेन आरब्धं (विहितम् ) ताण्डवं ( नृत्यम् ) यासु ताभिः । “ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तनम् ।" इत्यमरः । अनेकेत्यादिः-अनेकानि ( बहूनि, विभिन्नजातीयानीति भावः)। यानि कुसुमानि ( पुष्पाणि ) तेषां परिमल: ( सुगन्धः ) तं वहन्तीति तच्छीलास्ताभिः । तादृशीमिर्वनदेवताभिः ( अरण्याऽधिष्ठातृदेवीभिः ), स्वश्वासवासिताभिः स्वश्वासेन .( आत्मनिःश्वासेन ) वासिताभिः ( भाविताभिः ) इव, वनराजिभिः ( वृक्षसमूहपङ्क्तिभिः ), उपरुद्धतीरम् = उपरुद्धम् ( उपावृतम् ) तीरं ( तटम् ) यस्मिस्तत्, “पम्पाऽभिधानं पद्मसर" इत्यस्य विशेषणम्, एवं परत्राऽपि । अपरसागरशङ्किभिः = अपरः ( अन्यः ) यः सागरः ( समुद्रः ) तं शङ्कन्ते ( सन्दिहते ) तच्छीलाः, तैः। “वनकरिभि' रित्यस्य विशेषणम् । तत्रोत्प्रेक्ष्यते-सलिलं = जलम्, आदातुं = ग्रहीतुम्, अवतीर्णैः = कृताऽवतरणः, आकाशादिति शेषः । जलधरः = मेघः, इव, बहलपङ्कमलिनः = बहलाः (प्रचुरा: ) ये पङ्का: ( कर्दमाः), त इव मलिनाः (मलीमसाः, कृष्ण
पल्लवोंकी हवासे झला गया, लगातार तापिच्छ वृक्षोंकी पङ्क्तिसे अन्धकारित ( आच्छादित), वालीसे निर्वासित प्रतिदिन घूमते हुए ऋष्यमूकमें रहनेवाले सुग्रीवसे तोड़े गये फलोंसे हलकी लताओंसे युक्त, जलमें निवास करनेवाले तपस्वियोंके देवताके अर्चनके लिए उपयुक्त फलोंसे युक्त, उड़नेवाले जल चारियों (हँस आदि) के पंखोंसे गिरे हुए जलबिन्दुओंके सेचनसे कोमल पल्लवोंसे युक्त, लतामण्डपके नीचे जहाँपर मयूर नृत्यका आरम्भ कर रो, अनेक फूलोंके सुगन्धको धारण करनेवाली वनदेवताओंसे अपने निःश्वाससे मानों सुगन्धित, ऐसी बनपङ्क्तियोंसे आच्छादित तीरवाला, दूसरे समुद्रकी शङ्का करनेवाले जल पीनेके लिए उतरे हुए मेघोंके सदृश, प्रचुर पट्टोंसे मलिन हाथियोंसे जहाँका जल निरन्तर पीया जाता है, तलस्पर्शसे रहित, अन्तसे रहित, अनुपम