________________
४८
कादम्बरी
इव चन्दनरसमिश्रेण सलिलेन, काश्विदुक्षिप्त-कलस-पार्श्व- विन्यस्त- हस्तपल्लवाः प्रकीर्य्यमाणनख - मयूख- जालकाः प्रत्यङ्गुलि- विवर-विनिर्गत- जलधाराः सलिलयन्त्रदेवता इव, काश्चिजाड्यमपनेतुमाक्षिप्त-बालातपेनेव दिवसश्रिय इव कनककलशहस्ताः कुङ्कुमजलेन वाराङ्गनाः यथायथं राजानमभिषिषिचुः ।
अनन्तरमुदपादि च स्फोटयन्निव श्रुतिपथमनेक- प्रहत- पटु-पटह-झल्लरी- मृदङ्ग - वेणुवीणागीत-निनादानुगम्यमानो वन्दिवृन्द- कोलाहलाकुलो भुवन-विवरव्यापी स्नानशङ्खानामा पूर्यमाणानामतिमुखरो ध्वनिः ।
( देहः ) यासां ताः । स्फाटिकैः = स्फटिकमणिसम्बन्धिभिः, कलशैः = घटः, तीर्थजलेन = तीर्थं - सलिलेन | जलदेवता इव = सलिलाऽधिष्ठातृदेव्य इव, उत्प्रेक्षाऽलङ्कारः । काश्चित्, चन्दनरसमिश्रेण = मलयजद्रवसंयुक्तेन, सलिलेन, = जलेन, मलयसरित इव = मलयपर्वतनद्य इव, उत्प्रेक्षाऽलङ्कारः । काश्चित्, उत्क्षिप्तेत्यादिः = उत्क्षिप्त: ( उत्थापितः ) यः कलश: ( कुम्भ: ), तस्य पार्श्वयोः = वामदक्षिणभागयोः, विन्यस्ता: ( स्थापिताः ) हस्तपल्लवा : ( कर किसलयानि ) यामिस्ताः प्रकीर्य - माणनखमयूखजालकाः = प्रकीर्यमाणानि ( इतस्ततो विक्षिप्यमाणानि ) नखमयूखानां ( कररुहकिरणानाम् ) जालकानि ( समूहाः ) यासां ताः । प्रत्यङ्गुलिविवरविनिर्गतधाराः = प्रत्यङ्गुलि प्रतिकरशाखम् ) यानि विवराणि ( छिद्राणि ), तेभ्यो विनिर्गता ( निःसृता ) जलधारा ( सलिलसन्ततिः ) यासां ताः, सलिलयन्त्रदेवता इव = जलयन्त्राऽधिष्ठातृदेव्य इव । उत्प्रेक्षाऽलङ्कारः ।
काश्चित् = का अपि वाराङ्गनाः । कनककलशहस्ताः = कनक कलश: ( मुवर्णकुम्भ: ) हस्ते ( करे ) यासां ताः । दिवसश्रिय इव = वासरलक्ष्म्य इव, जाड्यं = शैत्यम्, अपनेतुं = निवारयितुम्, आक्षिप्तबालातपेन इव = आक्षिप्त: ( आकर्षितः ) बालातपः ( नूतनसूर्य द्योतः ) येन तेन इव, कुङ्कुमजलेन = काश्मीरसलिलेन, यथायथं = यथास्वं राजानं = भूपालम्, अभिषिषिचुः = स्नानं कारितवत्यः । अत्रापि "आक्षिप्त बालातपेनेव" इत्यत्र "दिवसश्रिय इवे" त्यत्र च उत्प्रेक्षालङ्कारः ।
अनन्तरमिति । अनन्तरम् = अभिषेकाऽनन्तरं श्रुतिपथं कर्णमार्ग, स्फोटयन् इव = विदारयन् इव, अनेकप्रहतेत्यादिः = अनेकै: ( बहुभिर्जनैः ) प्रहता: ( वादिता: ) पटवः ( समर्था: ) पटहाः ( आनका: "आनकः पटहोऽस्त्री स्यात्" इत्यमरः । झल्यर्य: ( वाद्यविशेषा: ), मृदङ्गा: ( मुरजा: ) वेणव: ( वंश्यः ) वीणा: ( वल्लक्यः ), गीतानि च ( गानानि च ) तेषां निनादः ( ध्वनयः ), तैः, अनुगम्यमान: ( अनुस्रियमाण: ), बन्दिवृन्दकोलाहलाऽऽकुलः = बन्दिनां ( स्तुतिपाठकानाम् ) वृन्दं ( समूहः ), तस्य कोलाहल : ( कलकलः ), तेन आकुल: ( मिश्र ), भुवनविवरव्यापी = भुवनानां ( लोकानाम् ) विवराणि ( छिद्राणि ) व्याप्नोतीति तच्छीलः, एतादृशः अतिमुखरः = अतिशयशब्दायमानः, आपूर्यमाणानां = मुखवातेः पूरणीक्रियमाणानां स्नानशङ्खानां = मज्जनकम्बुबाद्यानां, ध्वनिः = निनादः, उदपादिः = उत्पन्नोऽभूत् । उदुपसर्गपूर्वकस्य " पद गतौ” इति धातोर्लुङि प्रथमपुरुषकवचने रूपम् ।
देवताओं की समान होकर ( स्नान कराया ), कुछ वेश्याओंने चन्दनरससे मिश्रित जलसे मलयपर्वतकी नदियों के समान होकर ( स्नान कराया ), कुछ वेश्याओंने उठाये गये कलशके पार्श्वमें पल्लवके समान हाथोंको रखने से नाखूनों के किरणसमूहको फैलाकर प्रत्येक अगुलियोंके विवरोंसे निकलती हुई जलधारासे जलयन्त्रकी देवियों की तरह होकर (स्नान कराया ) । कुछ वेश्याओंने शैत्यको हटाने के लिए बालसूर्य के प्रकाशको खींचनेवाली दिनकी लक्ष्मियों के समान होकर सोनेके कलशको हाथमें लेकर केसरके जलसे राजाको स्नान कराया। उसके बाद कर्णमार्गको विदारण करते हुए-से बजाये गये अनेक नगाड़े, झाँझ, पखावज, वंशी, बीन और गानेके शब्द से अनुगत तथा स्तुतिपाठकोंके कोलाहल व्याप्त लोकच्छिद्रोंको व्याप्त करनेवाला बजाये गये स्नानकालिक शङ्खोंका अत्यन्त विस्तीर्ण शब्द उत्पन्न हुआ ।