________________
कथामुखे-शूद्रकस्नानम् त्क्षिप्तकर्णाभरणाः कर्णोत्सङ्गोत्सारितालकाः, गृहीतजल-कलसाः स्नानार्थमभिषेकदेवता इव वारयोषितः।
ताभिश्च समुन्नत-कुचकुम्भ-मण्डलाभिर्वारिमध्यप्रविष्टः करिणीभिरिव वनकरी परिवृतस्तत्क्षणं रराज राजा।
द्रोणीसलिलादुत्थाय च स्नानपीठममलस्फटिक-धवलं वरुण इव राजहंसमारुरोह ।
ततस्ताः काश्चिन्मरकतमणि-कलस-प्रभाश्यामायमाना नलिन्य इव मूतिमत्यः पत्त्रपुटे:, काश्चिद्रजतकलसहस्ता रजन्य इव पूर्णचन्द्रमण्डलविनिर्गतेन ज्योत्स्नाप्रवाहेण, काश्चित् कलसोत्क्षेप-श्रम-स्वेदार्द्र-शरीरा जलदेवता इव स्फटिकैः कलसस्तीर्थजलेन, काश्विन्मलयसरित दूरेत्यादिः = दूरं ( विप्रकृष्टं यथा तथा ) समुत्सारितानि ( उपरिन्यस्तानि ) वलयानि ( कङ्कणानि ) याभ्यस्ताः, तादृश्यो बाहुलताः ( भुजलता: ) यासां ताः । समुत्क्षिसकर्णाऽऽमरणा: = समुत्क्षिप्तानि (ऊर्ध्वस्थापितानि) कर्णाभरणानि (श्रोत्राऽलङ्कारा: ) याभिस्ता: । कर्णोत्सङ्गादित्यादिः कर्णोत्सङ्गात् ( श्रोत्रसमीपात् ) उत्सारिता: ( ऊर्ध्वस्थापिताः ) अलका: (चूर्णकुन्तला ) याभिस्ताः । गृहीतजलकलशाः = गृहीतः ( आत्तः ) जलकलश: ( सलिलकुम्भः ) याभिस्ताः, स्नानाऽर्थ = राज्ञो मज्जनाऽर्थम्, अभिषेकदेवता इव स्नानाऽधिष्ठातृदेव्य इव, वारयोषितः = वेश्याः, समुपतस्थुः समुपस्थिताः ।
ताभिश्चेति । समुन्नतेत्यादिः = समुन्नतम् ( अत्युच्चम् ) कुचकुम्भमण्डलं ( स्तनकलशसमूहः ) यासां तामिः । करिणीभिरिव = हस्तिनीभिरिव, परिवृतः = परिवेष्टितः, वारिमध्यप्रविष्ट: = जलाऽन्तरकृतप्रवेश: । वनकरी इव = अरण्यहस्ती इव, राजा = भूपः शूद्रकः, तत्क्षणं = तत्कालं, रराजशुशुभे । अत्रोत्प्रेक्षाऽलङ्कारः ।
द्रोणोसलिलादिति । द्रोणीसलिलात् - कुण्डिकाजलात्, उत्थाय = उत्थानं कृत्वा, अमलस्फटिकधवलम् = अमल: (निर्मल: ) यः स्फटिकः ( स्फटिकमणिः ) स इव धवलं ( शुभ्रम् ), स्नानपीठं मज्जनस्थानं, तत् वरुणः -प्रचेताः, राजहंसम् इव = मरालम् इव, आरुरोह = आरूढवान्, राजेति शेषः । उपमाऽलङ्कारः ।
तत इति । ततः- राजकर्तृकस्नानपीठाऽऽरोहणाऽनन्तरं, ताः = वाराऽङ्गनाः, तासां भेदान्निदिशति-मरकतेत्यादिः = मरकतमणिनिर्मित: (हरिन्मणिरचितः ) यः कलसः ( कुम्मः ), तस्य प्रभा ( कान्ति: ) तया श्यामायमाना: ( श्यामवदाचरन्त्यः ) मूर्तिमत्यः = शरीरधारिण्यः, नलिन्य इव = कमलिन्य इव, काश्चित् = कतिचित्, वाराङ्गनाः, पत्त्रपुट:=पर्णसम्पुटः, राजानम्, अभिषिषिचुः, इत्यत्र सम्बन्धः, एवं परत्राऽपि । काश्चित् वारयोषितः, रजतकलशहस्ताः रजतकलश: ( रूप्यकुम्भः ) हस्ते ( करे ) यासां ताः पूर्णचन्द्रमण्डलविनिर्गतेन = पूर्णचन्द्रस्य ( षोडशकलेन्दोः ) मण्डलं ( बिम्बम् ) तस्मात् विनिर्गतेन (निःसृतेन ), ज्योत्स्नाप्रवाहेण = चन्द्रिकास्रोतसा, रजन्य इव = निशा इव, अत्रोत्प्रेक्षाऽलङ्कारः। काश्चित्, कलशोत्क्षेपश्रमस्वेदाशरीराः = कलशस्य ( घटस्य ) उत्क्षेपः ( उत्थापनम् ) तस्मात् यः श्रमः (आयासः ) तेन यः स्वेदः (धर्मजलम् ) तेन आद्रं ( क्लिन्नम् ) शरीरं
रखनेवाली और जलकलशोंको लेनेवाली वेश्याएँ अभिषेकको देवताएँ-सी प्रतीत होती हुई उपस्थित हुई। जलके मध्यमें स्थित राजा उन्नत कुचकलशोंवाली उन वेश्याओंसे घिरा होकर उस समय हथिनियोंसे घिरे हुए जङ्गली हाथीके समान शोभित हुए। जलकुण्डिकाके जलसे उठ करके राजा वरुण जैसे राजहंसपर चढ़ते हैं उसी तरह निर्मल स्फटिकके समान सफेद स्नानपीठपर चढ़े। तब कुछ वेश्याओंने पन्नासे बने हुए कलशको कान्तिसे श्यामवर्णवाली होती हुई मानों मूर्तिमती पद्मिनी होकर पत्त्रपुटोंसे ( राजाको स्नान कराया ) कुछ वेश्याओंने चाँदीके कलशको हाथमें लेकर पूर्णचन्द्र के बिम्बसे निकले हुए चन्द्रिकाप्रवाहसे रात्रियोंकी तरह (स्नान कराया )। कुछ वेश्याओंने कलशको उठानेके परिश्रमसे पसीनेसे आर्द्रशरीरवाली होकर स्फटिकके कलशोंसे तीर्थजलसे जल