________________
४६
कादम्बरी
पुरः प्रधावता परिजनेन तत्कालं विरलजनेऽपि राजकुले समुत्सारणाधिकारमुचितमाचरद्भिः दण्डभिरुपदिश्यमानमार्गः, वितत-सितवितानाम्, अनेक चारणगण- निबध्यमानमण्डलाम्, गन्धोदक- पूर्ण - कनकमयजलद्रोणी - सनाथमध्याम्, उपस्थापित-स्फाटिकस्नानपीठाम्, एकान्तनिहितैरतिसुरभि - गन्ध-सलिलपूर्णैः परिमलावकृष्ट-मधुकर-कुलान्धकारितमुखैरातपभयान्नीलकर्पटावगुण्ठितमुखैरिव स्नान कलशैरुपशोभितां स्नानभूमिमगच्छत् ।
अवतीर्णस्य जलद्रोणीं वारविलासिनी-कर- मृदित-सुगन्धामलकलिप्त शिरसो राज्ञः परितः समुपतस्थुरंशुक - निबिडनिबद्ध-स्तनपरिकराः, दूरसमुत्सारित- वलय- बाहुलताः, समु
माणमूर्तिः = अलक्रियमाणा ( भूष्यमाणा ) मूर्ति: ( शरीरम् ) यस्य सः । इतस्ततः समन्ततः । स्नानोपकरणेत्यादिः = स्नानस्य ( मज्जनस्य ) उपकरणानि ( साधनानि जलादीनि ) तेषां सम्पादनं ( निष्पादनम् ) तस्मिन् सत्वरेण ( शीघ्रेण ) । अतः पुरः = अग्रे, प्रधावता - शीघ्रं गच्छता, परिजनेन = सेवकेन, तत्कालं = तत्क्षणं, राजकुले = भूपभवने, विरलजनेऽपि = अल्पजनेऽपि, उचितं = योग्यं, समाचरद्भिः = कुर्वद्भिः, दण्डिभिः = यष्टिधारकैः पुरुषः, उपदिश्यमानमार्गः = उपदिश्यमानः ( निर्दिश्यमान. ) मार्ग: ( पन्थाः ) यस्य सः । अतः परं स्नानभूमेर्विशेषणानि - विततसितवितानां विततं (विस्तृतम् ) सितं ( शुक्लम् ) वितानम् ( उल्लोचः ) यस्यां सा, ताम्, तादृशीं स्नानभूमिम्, एवमन्यत्राऽपि अन्वयः कर्तव्यः । अनेकचारणेत्यादिः = अनेके ( बहवः ) ये चारणगणा: ( कुशीलवसमूहाः ) तैः निबद्धघमानं ( विरच्यमानम् ) मण्डलं ( परिवरणम् ) यस्यां ताम् गन्धोदकेत्यादिः = गन्धोदकेन ( सुरभिजलेन ) पूर्णा ( पूरिता ) या कनकमयी ( सुवर्णमयी ) जलद्रोणी ( सलिलकुण्डिका ), तया सनाथ : ( युक्त:) मध्य : ( मध्यभागः ) यस्यां ताम् । उपस्थापितेत्यादिः = उपस्थापितं ( निकटनिहितम् ) स्फाटिकं ( स्फाटिकमणिनिर्मितम् ) स्नानपीठं ( मज्जनाऽऽसनम् ) यस्यां ताम् । एकान्तनिहितैः = एकान्ते ( रहसि ) निहित: ( स्थापितैः ) । अतिसुरभीत्यादिः = अतिसुरभि ( अतिशयेष्ट गन्धयुक्त ) यत् गन्धसलिलं ( गन्धपूर्णजलम् ), तेन पूर्णै: ( पूरितैः ) । परिमलाऽवकृष्टेत्यादिः = परिमलेन ( मनोहरगन्धेन ) अवकृष्टा: ( आकृष्टाः ) ये मधुकरा: ( भ्रमरा: ) तेषां कुलं ( समूहः ), तेन अन्धकारितं ( सञ्जाताऽन्धकारम् ) मुखम् (अग्रभागः ) येषान्तः । आतपभयात् = सूर्यज्योतिर्भीतिः ) नीलेत्यादिः = नीलकपटेन ( कृष्णवस्त्रखण्डेन ) अवगुण्ठितम् ( आच्छादितम् ) मुखम् ( अग्रभागः ) येषां तैः । इव, तादृशैः स्नान कलशैः = मज्जनकुम्भैः, उपशोभितां = शोमायुक्तां, स्नानभूमि = मज्जनभुवम् अगच्छत् = अब्रजत् । अत्रोत्प्रेक्षाऽलङ्कारः ।
-
अवतीर्णस्येति । जलद्रोणीं = सलिलकुण्डिकाम् अवतीर्णस्य = कृताऽवतरणस्थ, वारविलासिनात्यादिः = वारविलासिन्या : ( वेश्यायाः ) करेण ( हस्तेन ) मृदितं ( संचूर्णितम् ) यत् सुगन्धाऽऽमलकं ( सुरभिधात्रीफलं, तेन लिप्तं ) ( लेपविषयीकृतम् ) शिर: ( मस्तक: ) यस्य तस्य । राज्ञः = भूपस्य, परितः = समन्ततः, अंशुकेत्यादिः = अंशुकै: ( वस्त्रैः ) निबिडं ( दृढं यथा तथा ) निबद्ध : ( संयतः ) स्तनपरिकरः ( कुचवस्त्रबन्धः ) याभिस्ताः, "वारयोषितः" इत्यस्य विशेषणाम्, एवमन्यत्राऽपि ।
दौड़नेवाले सेवक से उस समय राजप्रासाद में थोड़े मनुष्यों के रहनेपर भी उचित हटानेके अधिकारका आचरण करनेवाले दण्डधारियोंसे बताये गये मार्गसे सफेद चाँदनी बिछाई गई, जिसके चारों ओर अनेक चारणगण बैठे हुए थे, जिसके मध्य में सुगन्धित जलसे पूर्ण सुवर्णमय जलकुण्डिका थी, स्फटिकमय स्नानपीठसे युक्त, एकान्तमें रक्खे गये खुशबूवाले जलसे पूर्ण, जिनके मुखमें सुगन्धसे आकृष्ट भौंरोंसे अन्धकार हो रहा था, गर्मी के भय से नीले कपड़ेसे ढके हुएक समान स्नान कलशोंसे शोभित ऐसी स्नानभूमिमें (राजा) पहुँचे । जलकुण्डिकामें उतरे हुए वेश्याओं के हाथोंसे पीसे गये सुगन्धित आँवलेसे लिप्त मस्तकवाले राजाके चारों ओर रेशमी वस्त्र से दृढतापूर्वक स्तन भागको बाँधनेवाली बाहोंसे कङ्कणोंको ऊपर चढ़ानेवाली कर्णभूषणोंको ऊपर