________________
कथामुखे-शूद्रकनित्यकृत्यवर्णनम् एवञ्च क्रमेण निर्वतिताभिषेको विषधरनिर्मोक-परिलघुनी धवले परिधाय धौतवाससी शरदम्बरकदेश इव जलक्षालन-निर्मलतनुः अतिववल-जलघर-च्छेद-शुचिना दुकूलपटपल्लवेन तुहिनगिरिरिव गगनसरित्स्रोतसा कृतशिरोवेष्टनः सम्पादित-पितृजलक्रियो मन्त्रपूततोयाञ्जलिना दिवसकरमभिप्रणम्य देवगृहमगमत् ।
उपरचित-पशुपतिपूजश्च निष्क्रम्य देवगृहान्निलिलाग्निकार्यो विलेपनभूमौ झङ्कारिभिरलिकदम्बकैरनुबध्यमानपरिमलेन मृगमद-नर्पूर-कुमवास-सुरभिणा चन्दनेनानुलिप्तसर्वाङ्गो
एवं च = पूर्वोक्तप्रकारेण, व्रमेण = परिपाट्या, निर्वतिताऽभिषेकः = निर्वतितः ( विहितः ) अभिषेकः ( स्नानम् ) येन सः। विषधरनिर्मोकपरिलधुनी = विषधरस्य (सर्पस्य ) निर्मोको ( कञ्चको ) इव पग्लिधुनी ( अतिशयसूक्ष्मे ), धवले = शुक्ले, धौतवाससी = प्रक्षालितवस्त्रे, उत्तरीयाऽधरीयस्वरूपे इति भावः । परिधाय = धारयित्वा, शरदा बरैकदेशः इव = शरदि ( मेघाऽत्यये ) अम्बरस्य ( आकाशस्य ) एकदेश (एकखण्ड: ) इव, जलक्षालननिर्मलतनुः = जलेन ( सलिलेन ) क्षालनं (प्रक्षालनम् ) तेन निर्मला ( स्वच्छा ) तनुः (शरीरम् ) यस्य सः । उपमाऽलङ्कारः । अतिधवलेति० = अतिधवल: ( अतिशयशुभ्रः ) यो जलधरच्छेदः ( मेघखण्ड: ), स इव शचिः ( उज्ज्वल: ), तेन, दुकुलपटाल्लवेन क्षोमवस्त्र किसलयेन, दुकूलपट: पल्लवम् इव, तेन, कृतशिरोवेष्टनः = कृतं (विहितम् ) शिरोवेटनं ( मस्तकप्रावरणम् ) येन सः, अत एव गगनसरित्स्रोतसागगनसरितः ( आकाशगङ्गायाः ) स्रोतसा ( प्रवाहेण ) कृतशिरोवेटनः (विहितशिखरप्रावरण: ) तुहिनगिरिः (हिमाऽऽलयः) इव, उपमाऽलङ्कारः । मन्त्रपूततोयाऽञ्जलिना =मन्त्रपूतः ( मन्त्रपवित्रः ) यः तोयाऽञ्जलि: ( जलाऽञ्जलि: ) तेन, सम्पादितपितृ जलक्रियः = सम्पादिता (निष्पादिता ), पितृणां ( कव्यवाडनलादीनाम् ) जलक्रिया ( तर्पणकर्म ) येन सः, दिवसकरं = सूर्यम् । अभिप्रणम्य = सम्मुखं नमस्कृत्य, देवगृहं =सुरमन्दिरम्, अगमत् = गतः । गम्धातोर्लुङ्, च्लेरङ् ।
उपरचिते त । उपरचितपशुपतिपूजः = उपरचिता ( उपविहिता ) पशुपते: ( शङ्करस्य ) पूजा ( अर्चा ) येन, तस्य । पशूनां ( जीवानाम् ) पतिः ( स्वामी ) पशुपतिः, तदुक्तं लिङ्गपुराणे
"ब्रह्माद्याः स्थावराऽन्ताश्च देवदेवस्य शूलिनः ।
पशवः परिकीर्त्यन्ते समस्ता: पशुवर्तिनः ।।" इति । एतेन शूद्रकस्य शैवत्वं प्रतीयते । देवगृहात् = सुरमन्दिरात्, निष्क्रम्य = बहिरागत्य, निर्वतिताऽग्निकार्यः =निर्वतितम् ( कृतम् ) अग्निकार्यम् ( अग्निहोत्रकर्म ) येन सः । अग्निशालायामिति शेषः । एतत्कथनं पञ्चमहायज्ञानामुपलक्षणम् । पञ्च महायज्ञा यथा
"बलिकर्म-स्वधा-होम-स्वाध्यायाऽतिथिसक्रियाः ।
भूतपित्रमरब्रह्ममनुष्याणां महामखा: ॥ १०२॥" याज्ञवल्क्य० आचार० ।
विलेपनभूमौ = अङ्गरागनिष्पादनभुवि । झङ्कारिभिः = झङ्कारशब्दयुक्तः, अलिकदम्बकैः = भ्रमरसमूहैः, अनुबद्धयमानपरिमलेन = अनुबद्धयमानः (अनुस्रियमाणः ) परिमल: (सौरभम् ) यस्य, तेन । मृगमद० = मृगमदः ( कस्तूरी ) कर्पूरः ( घनसारः ), कुङ्कमः ( केसरः ) तेषां वासः ( सौरभम् ) तेन सुरमिणा ( सुगन्धयक्तन ), तादृशेन चन्दनेन = मलयजग्सेन, अनुलिप्तसर्वांऽङ्गः=
इस प्रकार क्रमसे स्नानकर सर्पकी बैंचुलीके समान हलके और सफेद धोये कपड़ोंको पहनकर शरत् ऋतुके आकाशके एक भागके समान जलम्नानसे निर्मल शरीरवाला होकर अत्यन्त सफेद मेघके खण्डके सदृश निर्मल रेशमी वस्त्रसे आकाशगङ्गाके प्रवाहसे हिमालय पर्वतके समान शिरमें लपेटकर मन्त्रसे पवित्र जलाञ्जलिसे पितरोंका तर्पण कार्य कर सूर्यको प्रणाम कर राजा देवमन्दिरमें गये। पशुपति (शिवजी ) की पूजा कर देवमन्दिरसे निकलकर अग्निकार्य (अग्निहोत्र ) समाप्त कर विलेपनभूमिमें झङ्कार करनेवाले भ्रमरोंसे सुगन्धका
४का०