________________
३५
कथामुखे-चाण्डालकन्यकावर्णनम् श्रियमिव हस्तस्थित-कमलशोभाम्, मूर्छामिव मनोहारिणीम्, अरण्यभूमिमिव रूपसम्पन्नाम्, दिव्ययोषितमिवाकुलीनाम्, निद्रामिव लोचनग्राहिणीम्, अरण्यकमलिनीमिव मातङ्गकुलदूषिताम्, अमूर्तामिव स्पर्शजिताम्, आलेख्यगतामिव दर्शनमात्रफलाम्, मधुमासकुसुम-समृद्धिमिव अजातिम्, अनङ्ग-कुसुम-चापलेखामिव मुष्टिग्राह्यमध्याम्, यक्षाधिपलक्ष्मी
थिमिति । श्रियं = लक्ष्मीम्, इव, हस्तस्थितकमलशोभा = हस्तस्थिता ( करस्थिता ) कमलेन ( पोन ) शोभा ( कान्तिः ) यस्याः सा। चाण्डालकन्यकापक्षे-हस्तस्थिता कमलस्य इव शोमा यस्याः सा । श्लेषः ।
म मिति । मूम् = मोहम्, इव, मनोहारिणी =चैतन्यलोपकारिणोम्, चाण्डालकन्यकापक्षे—सौन्दर्येण मनोहराम् । श्लेषाऽलङ्कारः । अरण्यभूमिमिति । अरण्यभूमि = वनभुवम्, इव, अक्षतरूपसम्पन्नाम् = अक्षताः ( अनष्टा: ) ये रूपाः (पशवः ), तैः सम्पन्नां = सहिताम् । चाण्डालकन्यकापशे-अक्षतम् ( अनुपभुक्तम् ) यत् रूपं ( सौन्दर्यम् ) तेन सम्पन्नाम् । “रूपं स्वभावे सौन्दर्य नामगे पशुशब्दयोः । ग्रन्थावृत्तौ नाटकादावाकारश्लोकयोरपि" इति मेदिनी । श्लेषाऽलङ्कारः ।
दिव्ययोषितमिति । दिव्ययोषितं = दिव्या ( स्वर्गभवा ) योषित् (स्त्री, देवाऽङ्गनेति भावः ), ताम्, इव, अकूलीनां = को ( पृथिव्याम् ) लीना ( स्थिता), न कुलीना, तां, भूतलस्थितिरहितामिति भावः । चाण्डालकन्यकापक्षे-कुले भवा कुलोना, “कुलात्ख' इति खप्रत्ययः । तस्य "आयनेयो" त्यादिना ईनादेशः । न कुलीना, ताम् । चाण्डालत्वादप्रशस्तकुलोत्पन्नामिति भावः । “गोत्रा कुः पृथिवी पृथ्वी" त्यमरः । श्लेषः । निद्रामिति । निद्राम् = स्वापाऽवस्थाम्, इव, लोचनग्राहिणी = नेत्रग्राहिकां, नेत्रव्यापार ( दर्शन ) राहित्यकारिकामिति भावः । चाण्डालकन्यकापक्षे-लोचनग्राहिकां= नेत्राऽऽकषिणों, सौन्दर्याऽतिशयेनेति भावः ।
अरण्यकमलिनीमिति । अरण्यकमलिनी = विपिनपद्मिनीम्, इव, मातङ्गकुलदूषितां= मातङ्गकुलेन ( हस्तिसमूहेन ) दूषिताम् ( मर्दिताम् ), चाण्डालकन्यकापक्षे–मातङ्गकुलेन (चाण्डालवंशेन, मातङ्गकुलोत्पन्नत्वेनेति भावः ), दूषितां ( दोषयक्ताम् ) "मातङ्गः श्वपचे गजे" इति मेदिनी । भमूर्ता = मूर्ति (शरीर) रहिताम् इव, स्पर्शवजिताम् = आमर्शनरहिताम्, शरीराऽभावादिति भावः । चाण्डालकन्यकापक्षे-धर्मशास्त्रे चाण्डालस्पर्शस्य निषिद्धत्वादिति भावः । आलेल्यगतामिति । भालेख्यगतां= चित्रप्राप्ताम्, इव, दर्शनमात्रफलां = दर्शनमात्रं ( विलोकनमात्रम् ) फलं ( प्रयोजनम् ) यस्याः, ताम् । यथा चित्रस्थितायाः व्यक्तदर्शनाऽतिरिक्तं किमपि फलं न, तथा चाण्डालकन्यकाया अपि स्पर्शादिनिषेधादर्शनमात्र प्रयोजनमिति भावः ।
मधुमासेति । मधुमासकुसुमसमृद्धिम् = मधुमासे ( चैत्रमासे ) कुसुमसमृद्धिम् (पुष्पसंवृद्धिम् ) इव, अजाति = जातिरहिताम्, वसन्ते (चैत्रवैशाखयोः ) जातिपुष्पाभावात् । चाण्डालकन्यकापक्षे अप्रशस्तजातिमतीमिति मावः । अत्र नत्र: अप्राशस्त्याऽर्थबोधकत्वम् । “सुमना मालती जातिः" इत्यमरः ।
अनङ्गेति । अनङ्गकुसुमचापलेखाम् = अनङ्गस्य ( कामदेवस्य )। कुसुमचापस्य ( पुष्पधनुषः) कर्णभूषणोंसे भूषित हाथमें कमल लेनेवाली लक्ष्मीकी समान, हाथोंमें कमलको शोभासे युक्त, जैसे मूर्खा मनकी वृत्तिको हरण करती है वैसे ही सौन्दर्य से मनको हरण करनेवाली, जैसे वनभूमि रूपों ( पशुओं) से सम्पन्न होती है वैसे ही रूप ( सौन्दर्य ) से सम्पन्न, जैसे दिव्य (स्वर्गस्थित ) देवी कु (पृथिवी) में लीना ( सम्बद्धा) नहीं होती है वैसे चाण्डालकन्या होनेसे अकुलीन ( उत्तम कुलमें अनुत्पन्न ), जैसे निद्रा नेत्रवृत्तिको ग्रहण करतो है वैसी ही) नेत्रोंकी ग्राहिणी ( आकर्षण करनेवालो ), जङ्गलकी कमलिनी जैसे मातङ्ग ( हाथी) के समूहसे दूषित ( मदित होती है वैसे ही मातङ्ग कुल (चाण्डालवंश ) से दोष युक्त, अशरीरिणी ( अदेहधारिणी) की तरह स्पर्शसे वात, चित्रस्थितकी समान दर्शनमात्र फलसे युक्त, जैसे चैत्रमासमे फूलोंकी समृद्धि जाति पुष्प (चमेली) से रहित होती है