________________
३४
कादम्बरी
मालिङ्गितदेहाम्, अनङ्ग-वारण-शिरो-नक्षत्रमालायमानेन रोमराजि-लतालवालकेन मेखलादाम्ना परिगतजघनाम्, अतिस्थूल-मुक्ताफल-घटितेन शुचिना हारेण गङ्गास्रोतसेव कालिन्दीशङ्कया कृतकण्ठग्रहाम्, शरदमिव विकसित-पुण्डरीक-लोचनाम्, प्रावृषमिव घनकेशजालाम्, मलयमेखलामिव चन्दनपल्लवावतंसाम्, नक्षत्रमालामिव चित्रश्रवणा-भरण-भूषिताम्, मजीररत्नानां, प्रभाजालेन = कान्तिसमूहेन, रञ्जितशरीरतया = रागयुक्तदेहत्वेन, रूपे = सौन्दर्य अथवा चक्षुर्णाह्यगुणविशेषे, एव, पक्षपातिना = पक्षपातकारिणा, प्रजापति = ब्रह्माणम, अप्रमाणोकुर्वता, भगवता= ऐश्वर्यादिसम्पन्नेन, पावकेन = अग्निदेवेन, जातिसंशोधनाऽथ = जन्मपवित्रीकरणाऽथं, चाण्डालजातिशुद्धिकरणाऽर्थमिति भावः । आलिङ्गितदेहाम् = आश्लिष्टशरीराम्, अत्रोत्प्रेक्षालङ्कारः।
अनङ्गेति । अनङ्गवारणशिरोनक्षत्रमालायमानेन = अनङ्गः ( कामः ) एव वारण: ( हस्ती ) तस्य शिरसि ( मस्तके ) नक्षत्रमालायमानेन = तारकापक्तिवत् आचरता, रोमराजिलताऽऽलवालकेन
= रोमराजि: (लोमपक्तिः ) एव, लता ( वल्ली ), तस्या आलवालकेन ( आवापेन ), "स्यादालवालमालमावापः" इत्यमरः । तादृशेन मेखलादाम्ना = काञ्चीरज्ज्वा, परिगतजघनस्थलां - परिगतं ( समन्ततो व्याप्तम् ) जघनस्थल ( कटिपुरोभागस्थानम् ) यस्याः, ताम् । अत्र रूपकोपमयोः सङ्करः ।
अतिस्थूलेति । अतिस्थूलमुक्ताफलघटितेन = अतिस्थूलानि ( अधिकविपुलानि ) यानि मुक्ताफलानि ( मौक्तिकफलानि ) तैः घटितेन ( रचितेन ), शुचिना = शुक्लवर्णेन, हारेण = मुक्तामालया, कालिन्दीशङ्कया = यमुनासन्देहेन, चाण्डालकन्यकायाः श्यामत्वादिति भावः । गङ्गास्रोतसा भागीरथीप्रवाहेण, कृतकण्ठग्रहां = कृतः (विहितः ) कण्ठग्रहः (गलग्रहणम्, आलिङ्गनमिति भावः ) यस्याः, ताम् । अत्रोत्प्रेक्षाभ्रान्तिमतोरङ्गाङ्गिभावेन सङ्कराऽलङ्कारः ।
शरदमिति । शरदम् = घनाऽत्ययम्, इव, विकसितपूण्डरीकलोचनां = विकसितानि (प्रफूल्लानि). पुण्डरीकाणि ( श्वेतकमलानि ) एव लोचनानि ( नेत्राणि ) यस्याः सा, ताम् शरत्पक्षे रूपकालङ्कारः । चाण्डालकन्यकापक्षे—विकसिते पुण्डरीके इव लोचने यस्याः सा, ताम् । अत्रोपमाऽलङ्कारः । अत आरम्य–यक्षाऽधिपलक्ष्मीमिवाऽलकोद्भासिनीम्" एतत्पर्यन्ते पार्यन्तिक: श्लेषाऽलङ्कारः ।
प्रावृषमिति । प्रावृषं = वर्षाकालम्, इव, घनकेशजालां = घनाः ( मेघाः ) एव केशजालानि (शिरोरुहसमूहाः ) यस्याः, ताम्, प्रावृटपक्षे रूपकम् । चाण्डालकन्यकापक्षे-घनाः ( निबिडाः ) केशजालानि ( शिरोरुहसमूहाः ) यस्याः, ताम् । श्लेषाऽलङ्कारः ।
मलय मेखलामिति । मलयमेखलां= मलयस्य ( दाक्षिणात्यपर्वतविशेषस्य ) मेखलाम् ( मध्यमागम् ) इव । चन्दनपल्लवाऽवतंसां चन्दनपल्लवाः ( श्रीखण्डकिसलयानि ) एव अवतंसः ( भूषणम् ) यस्याः , ताम् ।
नक्षत्रमालामिति । नक्षत्रमालां = तारकापङक्तिम्, इव, चित्रश्रवणाऽभरणाभषितां =चित्रश्रवणे (चित्रश्रवणनक्षत्रे ) एव आभरणे ( भूषणे ) ताभ्यां भूषिताम् ( अलङ कृताम् )। चाण्डालकन्यकापक्षे-चित्राणि ( अनेकप्रकाराणि ) यानि श्रवणाऽऽमरणानि ( कर्णाभूषणानि कुण्डलादीनीति भावः ), तैः भूषिताम् ( अलङ्कृताम् ) । श्लेषः । पीले और ऊपर जाते हुए नूपुर के रत्नोंके कान्तिसमूहसे शरीरके रंग जानेसे मानों केवल रूपमें ही पक्षपात करनेवाले भगवान् अग्निदेवसे ब्रह्मदेवको प्रमाण न मानकर (चाण्डाल ) जातिको शुद्ध करनेके लिए आलिङ्गित शरीरवाली, कामदेवरूपी हाथोके शिरकी नक्षत्रमालाकी समान, रोमपक्तिरूप लताके लिए क्यारीकी समान मेखलाकी मालासे व्याप्त जघनवाली, अतिशय मोटे मोतियोंसे बने हुए सफेद हार ( माला )से यमुनाके सन्देहसे गङ्गाके प्रवाहसे कण्टमें लिपटी हुईको समान, विकसित श्वेतकमलों समान नेत्रोंसे शरत्का सदृश, पने केशसमूहसे घन ( मेध ) रूप केशसभूहवाला वर्षाको समान, चन्दन पल्लवरूप भूषण पहननेसे चन्दनपल्लवयुक्त मलयपर्वतके मध्यभागको सदृश, जैसे चित्रा और श्रवणरूप भूषणोंसे नक्षत्रपङ्क्ति भूपित होती है वैसे ही विचित्र