________________
कथामुखे-चाण्डालकन्यकावर्णनम् नारायण-देहप्रभा-श्यामलितामिव श्रियम्, कुपित-हर हुताशन-दह्यमान-मदन-धूम-मलिनीकृतामिव रतिम्, उन्मद-हलि-हलाकर्षण-भय-पलायितामिव कालिन्दीम्, अतिबहल-पिण्डालक्तकरस-राग-पल्लवितपादपङ्कजाम्, अचिर-मृदित-महिषासुर-रुधिर-रक्तचरणामिव कात्यायनीम्, आलोहिताङ्गुलि-प्रभा-पाटलित-नख-मयूखाम् अतिकठिन-मणिकुट्टिम-स्पर्शमसहमानां क्षितितले पल्लवभङ्गानिव निधाय सञ्चरन्तीम, आपिञ्जरेणोत्सर्पिणां नूपुरमणीनां प्रभाजालेन रञ्जितशरीरतया पावकेनेव भगवता रूप एव-पक्षपातिना प्रजापतिमप्रमाणीकुर्वता जातिसंशोधनार्थ
श्रियम इव । श्रियं विशिनष्टि---उरःस्थलेति । उरःस्थलेत्यादिः । उर:स्थले ( वक्षःस्थले ) यो निवास: ( निवसनम् ) तेन संक्रान्ता ( प्रतिबिम्बिता ) या नारायणस्य (विष्णोः ) देहप्रभा ( शरीरकान्तिः ), तया श्यामलिताम् ( श्यामवर्णीकृताम् ) श्रियम् = लक्ष्मीम इव । अत्रोपमातद्गुणयोरङ्गाङ्गिभावेन सङ्करः।
रतिम् इव । रति विशिनष्टि—कुपितेत्यादिः । कुपितः (कद्ध:, शरप्रहारेणेति शेषः ) यो हरः ( महादेवः ), तस्य यो हुताऽशन: ( अग्निः, तृतीयलोचनरूप:) तेन दह्यमानः ( भस्मीक्रियमाणः ) यो मदनः ( कामः ) तस्य धूमः ( अग्निशेषः ) तेन मलिनीकृतां ( मलीमसीकृताम्, मालिन्यं प्राप्तामिति भावः ) तादृशीं रति = कामप्रियाम् इव । अत्रातिशयोक्त्युपमयोरङ्गाङ्गिभावेन सङ्करालङ्कारः ।
कालिन्दीमिव । कालिन्दी विशिष्टि-उन्मदेत्यादिः । उन्मदः ( उत्कटमदः, अहङ्कारयुक्त इति भावः ) तादृशो यो हली ( हलाऽऽयुधः, बलराम इति भावः ) तस्य यत् हलं ( लाङ्गलमायुधम् ) तेन यत् आकर्षणम् ( आकृष्टिः ). ततो भयं ( भीतिः ), तेन पलायितां ( कृतपलायनाम् ) तादृशीं कालिन्दी = यमुनाम् इव । अत्रोत्प्रेक्षा।
कात्यायनीम् इव । कात्यायनी विशिनष्टि–अतिबहलेति । अतिबहल: ( अतिप्रचुरः ) यः पिण्डालक्तकः ( पिण्डीकृता लाक्षा ) तस्य रसः (द्रवः ) तस्य यो रागः ( लौहित्यम् ) तेन पल्लविते (किसलयीकृते, रक्तवर्णीकृते' इति भावः ) पादपङ्कजे ( चरणकमले ) यस्याः, ताम् । अतएवअचिरमृदितमहिषाऽसुररुधिररक्तचरणाम् = अचिरम् ( अबहुकालं, तत्क्षणमिति भावः ) मृदितः
मादतः ) यो महिषासुरः ( महिषदत्यः ), तस्य रुधिरम् ( असृक ) तेन रक्तौ ( लोहितौ ) चरणौ ( पादौ ) यस्या: सा, ताम् । तादृशीं कात्यायनी - दुर्गाम्, इव । अत्र पुनरुक्तवदाभासोपमयोरेकाश्रयाऽनुप्रवेशेन सङ्करः ।
मालोहितेति । आलोहिताऽङ्गलिप्रमापाटलितनखमयूखाम् = आलोहिताः ( अतिरक्ताः ) या अङ्गलयः ( करशाखा: ), तासां प्रमा ( दीप्तिः ) तया पाटलिताः ( श्वेतरक्तीकृताः ) नखमयूखाः ( नखरकिरणा: ) यस्याः , ताम् ।
___ अतिकठिनेति । अतिकठिनमणिकुट्टिमस्पर्शम् = अतिकठिनम् ( अधिककठोरम् ) यत् मणिकुट्टिमं ( रत्ननिबद्धभूमि: ), तस्य स्पर्श: ( आमर्शनम् ), तम् । असहमानाम् =अमृष्यन्तीम्, अतः क्षितितले = भूतले, पल्लवमङ्गान् = किसलयखण्डान्, निधाय = स्थापयित्वा, इव, संचरन्तीं = संचरणं कुर्वतीम् इव, अत्र क्रियोत्प्रेक्षाऽलङ्कारः ।
बापिअरेणेति । आपिञ्जरेण = ईषत्पीत रक्तेन, उत्सपिणा= ऊर्ध्वगामिना, नपुरमणीनां= अनुकरण कर किरात वेश लेनेवाली पार्वतीकी समान, वक्षःस्थलमें निवास करनेसे प्रतिबिम्बित विष्णुके शरीरकी कान्निमे श्यामवर्णवाली लक्ष्मी-सी, कुपित रुद्र के अग्निमें जलाये गये कामदेवके धूमसे मलिन बनाई गई गतिकी ममान, उत्कट गर्ववाले बलरामक हलसे आकर्षणकं भयमे भागों हुई यमुनाकी सदृश, अतिशय आधिक लाक्षाग्मको लालिमामे जिमका चरणकमल पल्लवित-सा हो गया है, अत: कुछ काल पहले मारे गये महिपाऽमुरके मधिरमे रन चरणोंवाली दुर्गाकी ममान, अधिक लाल उंगलियोंकी कान्तिसे जिसके नखोंकी किरणें गुलाबी हो गई हैं, अनः अधिक कठोर मणियों के फर्सके स्पर्शको न सहनेसे पल्लवोंके टुकड़ोंको बिछाकर चल रहीकी मदृश, कुछ
३ का०