________________
३२
कादम्बरी
कृत-कपट - पटु विलासिनीवेशस्य श्यामतया भगवतो हरेरिवानुकुर्वतीम्, सञ्चारिणीमिवेन्द्रनीलमणिपुत्रिकाम् गुल्फावलम्बिनानीलकञ्चुकेनाच्छन्नशरीराम् उपरि रक्तांशुक-विरचिताaroti नीलो पलस्थलीमिव निपतितसन्ध्यातपाम्, एक - कर्णावसक्त - दन्तपत्त्रप्रभाधवलितकपोल-मण्डलाम् उद्यदिन्दुकिरणच्छुरित-मुखीमिव विभावरीम्, आकपिल-गोरोचना-रचिततिलक-तृतीय- लोचनाम् ईशानुचरितकिरातवेशामिव भवानीम्, उरःस्थल- निवास -संक्रान्त
असुरेति । असुरेत्यादिः = असुरै: ( दैत्यैः ) गृहीतम् ( आत्तम् ) यत् अमृतम् ( पीयूषम् ) तस्य अपहरणे ( अपहृतौ ) कृतः ( विहित: ) कपट: ( छलम् ) तस्मिन् पटुः ( निपुणः ) विलासिनी वेष: ( नार्याकृतिः, मोहिनीरूपमिति भावः ) येन तस्य । तादृशस्य भगवतः = षड्विधैश्वयं सम्पन्नस्य । "ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ " ( विष्णुपुराणम् )
हरेः = विष्णोः, अनुकुर्वतीम् = अनुकरणं कुर्वतीम् इव ।
=
पुनस्तां विशेषयति--सञ्चारिणोमिति । सञ्चारिणीं सञ्चरणशीलाम् इन्द्रनीलमणिपुत्रिकां : मरकतरत्नपाञ्चालिकाम् इव । अत्र क्रियोत्प्रेक्षा ।
,
गुफेत । गुल्फाऽवलम्बिनीलकञ्चुकेन = गुल्फाबलम्बी ( घुटिकाऽबलम्बी ) यो नीलकवक: ( श्यामवर्ण कूर्पासकः ), तेन । आच्छन्नशरीराम् [ = आच्छन्नम् ( अपवारितम् ) शरीरं ( देहः )
यस्या:, ताम् ।
उपरोति । उपरि रक्तांऽशुकरचिताऽवगुण्ठनाम् = उपरि ( ऊर्ध्वदेशे ) रक्तांशुकेन ( लोहितवस्त्रेण ) रचितम् ( कृतम् ) अवगुण्ठनं ( मुखाऽऽवरणम् ) यया, ताम् । अत एव - निपतितसन्ध्यातपां = निपतितः ( प्राप्तः ) सन्ध्यातपः ( सायङ्कालिक : सूर्यकिरणः ) यस्यां ताम् । तादृशीं नीलोत्पलस्थलीं = नीलकुवलयाऽकृत्रिमभूमिम् इव । अत्र काव्यलिङ्गोपमयोः सङ्करः ।
एकेति । एकेत्यादिः = एककर्णे ( एकश्रोत्रे ) अवसक्तं ( लग्नम् ) यत् दन्तपत्त्रं ( कर्णभूषणविशेषः ), तस्य प्रभा ( कान्तिः ), तया धवलितं ( शुक्लीकृतम् ) कपोलमण्डलं ( गण्डफलकम् ) यस्याः, ताम् ।
उद्यदिन्द्विति । उद्यदिन्दुकिरणच्छुरितमुखीम् = उद्यन् ( उदयं प्राप्नुवन् ) य इन्दुः ( चन्द्र: ) तस्य किरणा: ( मयूखाः ), तैः छुरितं ( सम्बद्धम् ) सप्रकाशमिति भावः, मुखं ( पूर्वभागः ) यस्याः, ताम् । तादृशीं विभावरी = रात्रिम् इव ।
आकपिलेति । आकपिलेत्यादिः = आकपिला ( ईषत्पीतरक्ता ) या गोरोचना ( गोपित्तम् ), तेन रचितं ( निर्मितम् ) यत् तिलकं ( पुण्ड्रम् ) तदेव तृतीयं ( त्रिसंख्यापूरकम् ) लोचनं ( नेत्रम् ) यस्याः ताम् । अत एव — ईशान रचिताऽनुरचित किरातवेषाम् = ईशानरचितः ( शङ्करनिर्मितः, यो वेषः ) तस्य, अनुरचित: ( पचान्निर्मितः ) किरातवेषः ( अनार्यनेपथ्यम् ) यया तादृशीं भवानीम् = पार्वतीम् इव । उपमाऽलङ्कारः ।
भीतर रहे हुए तोतेकी कान्तिसे श्यामवर्णवाले पन्नोंसे बने हुएके समान पिंजड़े को लेता हुआ चाण्डाल पुत्रको पीछे करनेवाली, श्यामवर्ण होनेसे दैत्योंसे छीने गये अमृतको अपहरण करनेके लिए कपटमें कुशल विलासिनी( मोहिनी ) का वेश लेनेवाले भगवान् विष्णुका अनुकरण करनेवाली-सी, चलती फिरती इन्द्रनीलमणिकी पुतलीकी सदृश, पैरोंकी गाँठोंतक लटकनेवाले काले कञ्चुक (जामा ) से शरीरको आच्छादित करनेवाली, ऊपर लाल कपड़े से घूँघट करनेवाली सन्ध्याकी धूप पड़नेसे नीकमलकी भूमिकी सदृश, एक कानमें लटके हुए दन्तपत्त्र( कर्णभूषण) की कान्तिसे जिसका कपोल मण्डल सफेद हो रहा है, अतः उगे हुए चन्द्रमाकी किरणों से सम्बद्ध रात्रिकी समान, कुछ पीले गोरोचनसे बनाये गये तिलकसे तृतीय नेत्रवाली, अत: किरातवेश लेनेवाले महादेवका