________________
कादम्बरी
मिवालकोद्भासिनीम्, अचिरोपरूढयौवनाम्, अतिशयरूपाकृतिम्, अनिमिष-लोचनो ददर्श । दृष्ट्वा च तां समुपजातविस्मयस्याभून्मनसि महीपते:-"अहो ! विधातुरस्थाने रूप-निष्पादनप्रयत्नः। तथाहि, यदि नामेयमात्मरूपोपहसिताशेषरूपसम्पदुत्पादिता, किमर्थमपगत-स्पर्शसम्भोग-सुखे कृतं कुले जन्म।
मन्ये च 'मातङ्ग-जाति-स्पर्श-दोष-भयादस्पृशतेयमुत्पादिता प्रजापतिना, अन्यथा कथमियमक्लिष्टता लावण्यस्य । नहि करतल-स्पर्श-क्लेशितानामवयवानामीदृशी भवति कान्तिः । लेखां ( रेखां, लतामितिमाव: ) इव, मुष्टि ग्राह्यमध्यां = मुष्टिग्राह्यं ( संपीडिताऽङ्गलिग्रहणीयम् ) मध्यं ( मध्यभागः, चाण्डालकन्यकापक्षे—अवलग्नम् ) यस्याः, ताम् । धनुषो मध्यभागस्य क्षीणत्वाच्चाण्डालकन्यकायाः कृशमध्यत्वादिति भावः ।
यक्षाधिपलक्ष्मीमिति-यक्षाऽधिपलक्ष्मी = यक्षाऽधिपस्य ( कुबेरस्य ) लक्ष्मीम् ( सम्पत्तिम् ), इव, अलकोद्भासिनीम् = यक्षाऽधिपलक्ष्मीपक्षे–अलकया (तदाख्यनगर्या ) उद्भासनशीलाम्, चाण्डालकन्यकापक्षे—अलक: (चूर्णकुन्तलः ) उद्भासनशीलाम् ( उद्दीपनशीलाम् )। पूर्ववच्छ्लेषाऽलङ्कारः । अचिरोपरूढयौवनाम् = अल्पकालादेव प्राप्ततारुण्याम् । अतिशयरूपाऽऽकृतिम् = अतिशयरूपा ( अधिकसौन्दर्ययुक्ता ) आकृतिः ( आकारः ) यस्याः ताम्, तादृशीं तां= चाण्डालकन्यकाम्, अवनिपतिः = भूपतिः ( शूद्र कः )। अनिमिषलोचन: = अनिमिषे ( निमेषव्यापाररहिते ) लोचने ( नेत्रे) यस्य सः, तत्सौन्दर्य तृष्णाऽतिशयेनेति भावः ।
समुपजातेति । समुपजातविस्मयस्य = समुपजात: (समुत्पन्नः ) विस्मयः (आश्चर्यम् ) यस्य, तस्य । महीपतेः = राज्ञः, शद्र कस्य। मनसि =चित्ते, अभूत् = जातः, वक्ष्यमाणप्रकारो विचार इति शेषः ।
अहो इति । अहो = आश्चर्यम् । विधातुः = ब्रह्मणः, अस्थाने = अनुपयुक्तस्थले । रूपनिष्पादनप्रयत्नः = रूपस्य ( सौन्दर्यस्य) निष्पादनं ( निर्माणम् ) तत्र प्रयत्नः ( प्रयासः )।
प्रयत्नवैफल्यं प्रदर्शयति-तथाहीति । नामेत्यभ्युपगमे । आत्मरूपोपहसिताऽशेषरूपसंपत् = आत्मरूपेण ( स्वसौन्दर्येण ) उपहसिता ( उपहासविषयीकृता) अशेषा ( समस्ता ) रूपसम्पत् ( सौन्दर्यसमृद्धिः ) यया सा । इयं = चाण्डालकन्यका, उत्पादिता = निर्मिता, यदि = चेत् । ( तर्हि ), किमर्थ = किप्रयोजनम्, अपगतस्पर्शसंभोगसुखे = अपगते ( दूरीभूते ) स्पर्शसंभोगसुखे (आमर्शनोपभोगाऽऽनन्दे ) यस्मिन्, तादृशे, कुले = वंशे, जन्म = उत्पत्तिः, कृतं = विहितम् ।
उत्प्रेक्षते-मन्य इति । मातङ्गजातिस्पर्शदोषभयात् = मातङ्गजातेः ( चाण्डालजातस्य ) स्पर्शः ( आमर्शनम् ), तेन यो दोषः (दूषणम् ) तस्मात् मयात् (मोतेः )। अस्पृशता = स्पर्शम् अकुर्वता, प्रजापतिना=ब्रह्मणा, इयं = चाण्डालकन्यका, उत्पादिता= जनिता। अन्यथा = अन्यथाप्रकारेण, इत्थमसत्त्वे सतीति भावः । लावण्यस्य = सौन्दर्यस्य, इयम् = ईदृशी, अक्लिष्टता = क्लेशरहितता, अबाधितता इति भावः । कथं केन प्रकारेण, स्यादिति शेषः । उक्तमर्थमुपपादयति-नहीति । करतलवैसे अजाति (कुत्सित जाति ) वाली, कामदेवके पुष्पधनुकी लता मध्यभागमें पतली होनेसे मुष्टि से पकड़ी जाती है वैसे मुष्टिसे ग्राह्य ( पतली) मध्य (कमर ) वाली, जैसे कुबेरकी लक्ष्मी अलकासे शोभित होती है वैसे ही अलकोद्भासिनी, अर्थात् अलकों (चूर्णकुन्तलों से शोभित होनेवाली, कुछ ही काल पहले यौवनको प्राप्त करनेवाली, उत्कृष्ट सौन्दर्य और आकारवाली वैसो चाण्डालकन्याको राजाने पलक भी न मारकर देखा ।
____ आश्चर्ययुक्त होनेवाले राजाके मनमें ऐसा विचार हुआ-आश्चर्य है, ब्रह्माजीका अनुचित स्थानमें सौन्दर्य उत्पन्न करनेका प्रयत्न हुआ है। जैसे कि अपने सौन्दर्यसे समस्त सौन्दर्य-सम्पत्तिका उपहास करनेवाली इसको उत्पन्न किया है तो किस लिए स्पर्श और संभोगके सुखसे रहित वंशमै उत्पन्न किया ?। मैं समझता हूँ कि चाण्टालजातिके स्पर्शके दोषके भयसे ब्रह्माजीने स्पर्श के विना ही इसकी उत्पन्न किया, ऐसा नहीं होता तो ऐसा