________________
कादम्बरी
जयन्ति बाणासुरमोलिलालिता दशास्यचूडामणिचक्रचुम्बिनः । सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांसवः ।। २ ।। जयत्युपेन्द्रः स चकार दूरतो विभित्सया यः क्षणलब्ध-लक्ष्यया । दृशैव कोपारुणया रिपोरुरः स्वयं भयाद्भिन्नमिवास्रपाटलम् ॥ ३ ॥
अन्वयः-बाणासुग्मौलिलालिना दगाऽस्यचूडामणिचक्रचुम्विनः सुगऽसुराऽधीशशिखाऽन्तशायिनो भवच्छिदः त्र्यम्बकपादपांसवो जयन्ति ।। २ ।।
जयन्तोति । बाणाऽसुरमौलिलालिताः = बाणदैत्यमुकुटोपसेविताः, दशाऽऽस्यचूडामणिचक्रचुम्बिनः = गवणशिरोमणिसमूहस्पर्शिनः, सुगसुगऽधीशशिखाऽन्तशायिनः = देवदैत्यस्वामिचूडाप्रान्ताऽवस्थानशीलाः, भवच्छिदः = संसारदुःखनाशकाः, त्र्यम्बकपादपांसवः = महेश्वरचरणरेणवः, जयन्ति = सर्वोत्कर्षेण वर्तन्ते ॥२॥
टिप्पणी-बाणाऽसुरमौलिलालिताः = न सुरः असुर (न), विरोध अर्थमें नञ् । बाणवाऽसौ असुरः ( क० धा०)। तस्य मौलि: (ष० त० ), तेन लालिताः (तृ० त०)। दशाऽऽस्यचूडामणिचक्रचुम्बिनः = दश आस्यानि यस्य सः ( बहु० ), तस्य चूडाः ( ष० त०), तासु मणयः (स० त०), तेषां चक्र (ष० त०), तत् चुम्बन्तीति ( उपपद०)। सुराऽमुराऽधीशशिखाऽन्तशायिनः =सुराश्च असुराश्च (द्वन्द्व०), तेषाम् अधीशाः, (१० त०) तेषां शिखा: (१० त०), तासाम् अन्ताः (ष० त०), तेषु शेरते तच्छीलाः ( उपपद०)। भवच्छिदः = भवं छिन्दन्ति इति ( उपपद०)। त्र्यम्बकपादपांसवः = त्र्यम्बकस्य पादौ (ष० त० ), तयो: पांसव: (१० त० )। जयन्ति =जि+ लट् + झिः, यहाँ पर "जि'' धातु अकर्मक है। वंशस्थवृत्तम् ।। २ ।।
अन्वयः-स उपेन्द्रो जयति, यो बिभित्सया दूरतः क्षणलब्धलक्ष्यया कोपाऽरुणया दशा एव रिपोः उरः भयात् स्वयम् अस्रपाटलं चकार ।। ३ ।।
जयन्तीति । सः = श्रुतिस्मृतिपुराणप्रसिद्धः, उपेन्द्रः = विष्णुः, नृसिंहाऽवतारधारीति भावः, जयति = सर्वोत्कर्षेण वर्तते, यः = उपेन्द्रः, बिभित्सया = विदारणेच्छया दूरतः = विप्रकृष्टप्रदेशात् एव, क्षणलब्धलक्ष्यया = अल्पकालप्राप्तलक्षया, कोपाऽरुणया = क्रोधरक्तवर्णया, दृशा एव = दृष्टया एव, न तु नखरेणाऽपीति भावः । रिपोः = शत्रोः, हिरण्यकशिपोरिति भावः । उरः = वक्षःस्थलम्, भयात् = विदारणभीतेः, स्वयम् = आत्मना एव । अस्रपाटलम् = रुधिरसमरक्तवणं चकार = कृतवान् ।। ३ ।।
टिप्पणी-सः = यह पद यहाँपर प्रसिद्ध अर्थमें है अतः यः" इस पदके न होनेपर भी विधेयाऽविमर्श दोष नहीं होता है। बिमित्सया = भेत्तुम् इच्छा बिमित्सा, तया, भिद् + सन् + अ + टाप् +टा । दूरतः-दूरात् इति, दूर + तसिः ( अव्यय ) क्षणलब्धलक्ष्यया = लब्धं लक्ष्यं यया सा लब्धलक्ष्या (बहु० ), क्षणं लब्धलक्ष्या, तया "कालाऽध्वनोरत्यन्तसंयोगे" इससे द्वितीया और "अत्यन्तसंयोगे च" इससे द्वि० त० । कोपारुणया = कोपेन अरुणा, तया (तृ० त०)। अम्रपाटलम् = अस्रम् इव पाटलं तत् "उपमानानि सामान्यवचनः" इससे ( उपमान क० धा०)। चकार=कृ+ लिट् + तिप् ( णल ) । उत्प्रेक्षा अलङ्कार । वंशस्थवृत्तम् ॥ ३ ॥
बाणाऽसुरके मुकुटमे उपसेवित, गवणके मस्तकोंके मणिसमूहका स्पर्श करनेवाली देवता और दैत्योंके स्वामियोंके शिरके ममीप रहनेवाली और संसारको दूर करने वाली महेश्वरके चरणोंकी धूलियाँ अत्यन्त उत्कर्षसे रहती हैं ॥ २ ॥
प्रसिद्ध विष्णु ( नृसिंह अवतार लेनेवाले ) सबसे उत्कर्षपूर्वक रहते हैं, जिन्होंने कि विदारण करनेकी इच्छासे दूरसे ही अल्पक्षणमें ही लक्ष्यको प्राप्त करनेवाले क्रोधसे लाल नेत्रसे ही, शत्रु (हिरण्यकशिपु )के वक्षःस्थलको विदारणके भयसे स्वयम् रुधिरके समान लाल वर्णवाला बना डाला ॥४॥