________________
॥ श्रीः॥
कादम्बरी चन्द्रकला-संस्कृतहिन्दीव्यास्योपेता
मङ्गलाचरणम् रजोजुषे जन्मनि, सत्त्ववृत्तये स्थितौ प्रजानां, प्रलये तमःस्पृशे। अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः ॥१॥
भण्डाऽसुराऽऽदिविबुधारिनिषूदनेन
भक्तप्रसादनपरेण समोहितेन । याऽऽस्ते श्रुतिस्मृतिनुता हितहेतुभूता
तां लोकपालनपरा ललितां नमामि ॥१॥ अथ कविकुलललामभूतो महाकविर्बाणभट्टः प्रारिप्सितग्रन्थनिर्विघ्नपरिसमाप्तिकामो नतिरूपं मङ्गलमाचरति-रजोजुष इति ।
अन्वयः प्रजानां जन्मनि रजोजुषे, स्थितौ सत्त्ववृत्तये, प्रलये तमःस्पृशे, ( अत एव ) सर्गास्थितिनाशहेतवे, त्रयीमयाय त्रिगुणाऽऽत्मने अजाय नम इत्यन्वयः ।
रजोजुष इति । प्रजानां जनानां, जन्मनि = उत्पत्ती, रजोजुषे = रजोगुणयुक्ताय । स्थितौ = मर्यादायां, सत्त्ववृत्तये = सत्त्वगुणयुक्ताय, प्रजानामितिशेषः । एवं परत्राऽपि । प्रलये =संहारे, तमःस्पृशेतमोगुणयुक्ताय, अत एव सर्गस्थितिनाशहेतवे = सृष्टिमर्यादासंहारकारणाय, त्रयीमयाय = ब्रह्मविष्णुमहेश्वररूपाय यद्वा वेदस्वरूपाय, त्रिगुणाऽऽत्मने = रजःसत्त्वतमोगुणस्वरूपाय, स्वयं तू अजाय = जन्मरहिताय, नाशरहिताय चेति ऊह्यम् । तादृशाय ईश्वराय नमः ॥ १ ॥
टिप्पणी-प्रजानां-प्रजायन्त इति प्रजाः, तासाम् प्र + जन् + डः (उपपद०)+ आम् । रजोजुषे = रजो जुषत इति रजोजुट, तस्मै, रजस् + जुष् + क्विप् (उपपद० ) + उ । सत्त्ववृत्तये = सत्त्वे वृत्तिः यस्य सः, तस्मै ( व्यधिकरण-बहु० )। तमःस्पृशे = तमः स्पृशतोति तमःस्पृक्, तस्मै, "स्पृशोऽनुदके क्विन्" इति तमस् + स्पृश् + क्विन् ( उपपद०)+ ऊँ । सर्गस्थितिनाशहेतवे = सर्गश्च स्थितिश्च नाशश्च सर्गस्थितिनाशाः ( द्वन्द्व०), तेषां हेतुः, तस्मै ( ष० त० )। त्रयीमयाय = त्रयी एव त्रयीमयं तस्मै, त्रयी+मयट् ( स्वरूप अर्थमें )। त्रिगुणाऽऽत्मने = त्रयो गुणा एव आत्मा यस्य सः, तस्मै ( बहु० )। अजाय न जायत इत्यजः, तस्मै, नञ् + जन् + ड: + ङे, “अन्येष्वपि दृश्यते' इस सूत्रसे ड प्रत्यय ( उप० ) “नमः'' इस पदके योगमें “नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च' इससे चतुर्थी । वंशस्थं वृत्तम् । “जतौ तु वंशस्थमुदीरितं जरौ" ॥ १ ॥
__ प्रजाओंके सृष्टिकालमें रजोगुणवाले (ब्रह्मरूप ), स्थितिकालमें सत्त्वगुणवाले (विष्णुरूप), संहारकालमें तमोगुणवाले ( महेश्वररूप ) जन्मरहित, उत्पत्ति, स्थिति और प्रलयके कारण, ब्रह्मा, विष्णु और महेश्वर इन तीन स्वरूपोंसे युक्त अथवा वेदस्वरूप त्रिगुण (सत्त्व, रज और तम) स्वरूप अज जन्मरहित ईश्वरको नमस्कार है ॥१॥