________________
कथामुखे-रात्रिवर्णनम् मन्दतिषु विषहमान-कुमुदवन-कपाय परिमलेषु समुपोट-निद्रा-भरालस-तारकैरन्योन्य-प्रथितपक्षपुटेरारब्ध-रोभन्क मान्धर-मुखैः सुखासीनैराश्रममृगैरभिनन्दितागमनेषु प्रवहत्सु निशामुखसमीरणेषु, अर्द्धयाममानावखण्डितायां विभाव-म, हारीतः कृताहारं मामादाय सर्वस्त महामुनिभिरुपसृत्य चन्द्रातपोद्भासिनि तपोवनैकदेशे वेत्रासनोपविष्टम् अनतिदूरवत्तिना जालपादनाम्ना शिष्येण दर्भपवित्र-धवित्र-पाणिना मन्दमन्दमुपवीज्यमानं पितरमवोचत् । 'हे तात ! सकलेयमाश्चर्य श्रवण-कुतूहलाकलित-हृदया समुपस्थिता तापसपरिषदाबद्धमण्डला
लोके, धवलीकृते = शुक्लीकृते सति, विघटमानेत्यादिः = विघटमानानि (क्किसन्ति ) यानि कुमुदवनानि ( करवसमूहा: ) तैः कषायाः ( तुवराः ) परिमलाः ( घागतपंणा गन्धाः ) येषु तेषु, अवश्यावेत्यादि.० = अवश्यायस्य ( हिमस्य) जलबिन्दुभिः ( सलिलपृषतः ) मन्दा ( मन्थरा) गतिः ( गमनम् ) येषां, तेषु । तादृशेषु सत्सु । समुपोढत्यादिः = समुफोढा ( सम्यक् प्राप्ता ) या निद्रा (स्वाप: ) तस्या भर: ( अतिशयः ) तेन अलसे (मन्यरे) तारके ( कनीनिके ) येषां, तैः । "आश्रममृगः" इत्यस्य विशेषणम्, एवं परवाऽपि । अन्योन्येत्यादि: = अन्योन्यं (मिष: ) ग्रथितानि ( गुम्फितानि, मिलितानीति भावः ) पक्ष्मपुटानि ( नयनरोमसमूहाः ) येषां, तैः । आरन्धरोमन्थमन्थरमुखै = आरब्धः ( उपक्रान्त: ) यो रोमन्यः ( चर्वितचर्वणम् ) तेन मन्थरम् ( अलसम् ) मुखं (क्दनम् ) येषां, तः। सुखासीनः = सुखम् ( सानन्दम् ) आसीन: ( उपविष्टः ) तादृशः आश्रममृग:मनिनिवासस्थानहरिणः, अभिनन्दितागमनेषु - अभिनन्दितम् ( श्लाषितम् ) आगमनम् ( आगमः ) येषां, तेषु, तादृशेष निशामुखसमीरणेषु = प्रदोषवातेषु, प्रवहृत्सु = प्रवात्सु सत्सु । विभावर्या = रात्री, अर्द्धयामेत्यादिः = अर्द्धयाममात्रम् ( अद्धप्रहरमात्रम् ) तेन अवखण्डितायां प्राप्तखण्डनायां, व्यतीतायां सत्यामिति भावः । हारीत = जाबालिमुनिपुत्रः, कृताहारं = कृतः (विहितः ) आहार: ( भक्षणम् ) येन, तं, माम्, आदाय = गृहीत्वा, सर्वः = सकल:, तैः = पूर्वोक्तः, मुनिमिः-तपस्विमिः, सहेति शेषः । चन्द्रातपोद्भासिनि = चन्द्रातपेन ( इन्दुप्रकाशेन ) उद्भासते ( विद्योतते) तच्छोल:, तस्मिन् । तपोवनकदेशे = तपोवनस्य ( तपोविपिनस्य ) एकदेशे ( एकभागे), वेत्रासनोपविष्टं वेत्रासने ( वेतसविष्टरे ) उपविष्टम् (निषण्णम् ), अनतिदूरवर्तिना - अनतिदूरे ( किञ्चित्समीपे ) वर्तते (विद्यते ) तच्छीलस्तेन । दर्भपवित्रधवित्रपाणिना = दमण ( कुशेन) पवित्रं (प्रयतम् ) यत् पवित्र (मृगचर्मनिमितं तालवन्तम् ) तत् पाणी (करे ) यस्य, तेन । “वित्र व्यजनं तद्यद्रचितं मृगचर्मणा।" इत्यमरः । जालपादनाम्ना= जालपादाभिधानेन, शिष्येण-विनेयेन, मन्दं = मन्थरं यथा तथा, उपवीज्यमानं = क्रियमाणोपवीजनं, तादृशं पितरं = जनक, जाबालिमुनिम् । अवोचत् = अवादीत् ।
हे तातेति । हे तात = हे पितः । आश्चर्येत्यादिः = आश्रयस्य ( अद्भुतवृत्तान्तस्य ) श्रवणम् (भाकर्णनम् ) तस्मिन् यत् कुतूहलं (कौतुकम् ) तेन आकलितं ( व्याप्तम् ) हृदयं ( चित्तम् ) यस्याः सा, तादृशी सकला ( समस्ता) समुपस्थिता= समागता, इयं = सन्निकृष्टस्था, तापसपरिषत् - तपस्विसभा, आबद्धमण्डला=आबद्धं ( रचितम् ) मण्डलं (समूहः ) यया सा, तादृशी सती, प्रतीक्षते=
ममृतके चूर्णपटलसे जगतकं उज्ज्वल किये जानेपर विकसित होते हुए कुमुदवनके कषाय मनोहर गन्धोंके ओसकी नलबिन्दुभोंसे मन्दगति हो जानेपर गाढ़ निद्राके आधिक्यसे अलसाई हुई पुतलियोंवाले परस्पर मिले हुए पलकोंवाले, भारन्ध जुगालीसे भालस्यपूर्ण मुखवाले और सुखपूर्वक बैठे हुए मृगोंसे अभिनन्दित आगमनवाले रात्रिके आरम्भकी हवाओं के बहनेपर, रातके आधा प्रहर मात्र व्यतीत होनेपर भोजन किये हुए मुझे लेकर हारीत सब महामुनियों के साथ चन्द्रमाके प्रकाशसे प्रकाशित तपोवनके एक स्थानमें वेतके आसनपर बैठे हुए और कुछ समीपमें रहनेवाले और कुशसे पवित्र मृगचर्भसे बने हुए पङ्केको हाथमें लेनेवाले जालपाद नामके शिष्यसे धीरे-धीरे पड़ेसे झले जाते हुए पिता ( जाबालि ) के समीप जाकर बोले-हे पिताजी! आश्चर्यजनक वृत्तान्तको सुनने में कौतुकसे न्याप्त