________________
१५४
कादम्बरी प्रतीक्षते । व्यपनीतश्रमश्च कृतोऽयं पतत्रिपोतः। तदावेद्यतां यदनेन कृतमन्यस्मिञ्जन्मनि कोध्यमभूद्भविष्यति चेति। एवमुक्तरतु स महामुनिरग्रतः स्थितं मामवलोक्य तांश्च सर्वानेकाग्राछवणपरान् मुनीन् बुद्ध्वा शनैः शनैरब्रवीत्-'श्रूयतां यदि कौतूहलम् ।
इति श्रीमहाकविबाणभट्टविरचितायां कादम्बर्या कथामुखम् ।
प्रतीक्षां कुरुते । अयं = सन्निकृष्टस्थः, पतत्रिपोतश्च =पक्षिशावकश्र, व्यपनीतश्रमः-व्यपनीतः ( दूरीकृतः ) श्रमः ( खेदः ) यस्य सः, तादृशः, कृतः-विहितः । तत् = तस्मात्कारणात् अनेन =पतत्रिपोतेन, यत्, कृतं =विहितं, तत् = वृत्तम्, आवेद्यतां=ज्ञाप्यताम् । अपरस्मिन् = अन्यस्मिन्, जन्मनि% जनने, अयं = पतत्रिपोतः, कः, अभूत् = अभवत्, भविष्यति च = भविता च । एवं पूर्वोक्तप्रकारेण, उक्तः = अमिहितः, सः= पूर्वोक्तः, महामुनिः = महर्षिः, जाबालिरिति भावः । अग्रतः = पुरतः, स्थितम् = आसीनं, माम्, अवलोक्य = दृष्ट्वा, तान् = पूर्वोक्तान्, सर्वान् = सकलान्, मुनीन् = तापसान्, एकाग्रान् = अनन्यवृत्तीन्, श्रवणपरान् = आकर्णनतत्परान्, बुद्ध्वा =ज्ञात्वा, शनैः शनैः = मन्दमन्द, अब्रवीत् = अगादीत् । कौतूहलं = कौतुकं, चेत् = यदि, तहीतिशेषः । श्रूयताम् = आकयंतां, मवद्भिरिति शेषः।
इति श्रीशेषराजशर्मप्रणीतायां नवचन्द्रकलाऽऽख्यायां कादम्बरीव्याख्यायां कथामुखम् ।
चित्तवाली उपस्थित यह समस्त तपस्वियोंकी सभा मण्डल बांधकर प्रतीक्षा कर रही है। यह पक्षिशावक श्रमरहित किया गया है। इसलिए इसने जो किया उसे ज्ञापित कीजिए। दूसरे (पूर्व) जन्ममें यह कौन था? और कौन होगा ?" ऐसा कहे गये उन महामुनि (जाबालि ) ने आगे रहे हुए मुझे देखकर और सुननेके लिए तत्पर उन सब मुनियोंको एकाग्र जानकर धीरे-धीरे कहा-"कौतुक ही तो सुनो" ।
इति कथामुख।